न्यायकोशः /715
This page has not been fully proofread.
न्यायकोशः ।
६६१
प्रभृतिभिः समिद्भिः स्रुक्स्रुवोलुखलमुसलकुठारखनित्रयूपदा रुदर्भ चर्मग्राव -
पवित्रभाजनादिभिर्द्रव्योपकरणैः उद्गातृहोत्रध्वर्युब्रह्मादिभिर्ऋत्विग्भिः का-
म्यनैमित्तिकानां पक्षादिपूर्वकाणां यथोक्तदक्षिणानां समापनं यजनम् इति
( श्रा० वि० ) ।
यजुः – [ क ] वृत्तगीतिवर्जितत्वेन प्रश्लिष्टपठिता मन्त्रा यजूंषि ( जै०
न्या० अ० २ पा० १ अधि० १२ ) । शेषे यजुः शब्दः ( जै०
सू० २।१।३५) इति । यत्र वाक्ये अर्थवशेन छन्दोविशेषवशेन पाद-
व्यवस्था सा ऋक् । तत्रैव गाने सति सामोच्यते । एतदन्यद्यजुः-
शब्देनोच्यते । [ ख ] यजूंषि वा तद्रूपत्वात् (जै० सू० २१११३८ )
इति । अस्यार्थः । निगदा यजूंषि । तद्रूपत्वात् यजुर्लक्षणसत्त्वात्
( जै० सू० वृ० २१११३८ ) इति ।
—
-
यज्ञः – १ यागशब्दवदस्यार्थोनुसंधेयः । २ ज्ञानविशेषः । ३ क्रियाविशेषो
वा । स च यागः सात्त्विकराजसतामसभेदेन त्रिविधः । तदुक्तं
गीतायाम् (१) अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति
मनः समाधाय स सात्त्विकः ॥ (२) अभिसंधाय तु फलं दम्भार्थमपि
चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ (३) विधिहीन-
मसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥
( गीता अ० १७ श्लो० ११ १३ ) इति । यज्ञो नानाविधः द्रव्य-
यज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । स्वाध्यायज्ञानयज्ञाश्च यतयः संशित-
व्रताः ॥ ( गीता अ० ४ श्लो० २८) इति । गृहस्थकर्तव्याः पञ्च
महायज्ञा यथा [क] अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो
दैवो बलिर्भौतो नृयज्ञोतिथिपूजनम् ॥ ( गारुड० अ० ११५ ) इति ।
[ख ] देवयज्ञो भूतयज्ञः पितृयज्ञस्तथैव च । ब्रह्मयज्ञो नृयज्ञश्च पञ्च
यज्ञाः प्रकीर्तिताः ॥ तत्र च होमो दैवो बलिर्भूतः पित्र्यः पिण्डक्रिया
स्मृतः । स्वाभ्यायो ब्रह्मयज्ञश्च नृयज्ञोतिथिपूजनम् ॥ (शङ्खस्मृतिः) इति ।
यज्ञसूत्रम् – उपनयनसंस्कारेण पवित्रीकृतः सूत्रविशेषः । स च द्विजैर्धार्यो
धर्मार्थम् । अत्र व्युत्पत्तिः यज्ञार्थं योग्यं संस्कृतं वा सूत्रम् ( शाक० त० )