न्यायकोशः /711
This page has not been fully proofread.
न्यायकोशः ।
६५७
मूर्च्छनास्त्वेकविंशतिः । तालास्त्वेकोनपञ्चाशदित्येतत्स्वरमण्डलम् ॥ इति
(पञ्चतन्त्रे ) । ४ काव्यज्ञास्तु प्रसरणम् । यथा शिलोच्चये मूर्छति मारु-
तस्य ( रघु० २।३४ ) इत्यादौ इत्याहुः ।
मूर्छितः – ( पारदः ) नानावर्णो भवेत्सूतो विहाय घनचापलम् । लक्षणं
दृश्यते यस्य मूर्छितं तं वदन्ति हि ॥ (सर्व० सं० पृ० २०४ रसेश्व० ) ।
मूर्तगुणत्वम् – [क] अमूर्तगुणवृत्तिः संस्कारत्वान्या गुणत्वव्याप्या च
या जाति: संख्यात्वबुद्धित्वादिः तच्छ्रन्यगुणत्वम् । अत्र शून्यान्तेन
संख्यादेः बुद्ध्यादेश्च व्युदासः । वेगस्थितिस्थापकोपसंग्रहाय संस्कारत्वान्य
इति विशेषणं दत्तम् (दि० गु० पृ० १९२ ) । [ ख ] अमूर्तावृत्ति-
गुणत्वम् । अमूर्तावृत्तिगुणास्तु रूपम् रसः गन्धः स्पर्शः परत्वम् अपरत्वम्
गुरुत्वम् द्रवत्वम् स्नेहः वेगः स्थितिस्थापकश्चेति ( भा०प० गु०
श्लो०
१० ८७-८८) । अथवा [ग] मूर्तत्वव्याप्यतावच्छेदकगुणवृत्ति-
जातिमत्त्वम् । अत्रावच्छेदकान्तेन संख्यात्वादेः वृत्तित्वान्तेन कर्मस्वादेः
व्युदासः ( दि० गु० पृ० १९२ ) । [६] ] केचित्तु विभ्ववृत्ति-
संख्यादिपञ्चकभिन्नगुणत्वम् इत्याहु: ( ल० व० ) ।
मूर्तम् – ( द्रव्यम्) १ क्रियावद्रव्यम् । यथा वायुर्मूर्तः। मूर्तानि पञ्च
पृथिवी आपः तेजः वायुः मनश्चेति ( न्या० बो० १ पृ० ३ )
( वाक्य० १ पृ० ५) (भा०प० श्लो० २५ ) । लक्षणं तु मूर्तत्व-
मेव । तच्च अपकृष्टपरिमाणवत्त्वम् ( मू० १ पृ० ५७ ) । अविभु-
वृत्तिपरिमाणवत्त्वमित्यर्थः । तेन परमाणौ नाव्याप्तिः । अथवा परि-
च्छिन्न परिमाणवत्त्वम् (त० दी० १) । वेगवस्त्वं क्रियाबस्त्वं वा
( न्या० बो०
० १ पृ० ३ ) ( वाक्य० १ पृ० ५ ) । इयत्तावच्छिन्न-
परिमाणयोगः इति प्राञ्च आहुः । मूर्तत्वं जातिः इति नव्या आहुः
( प० मा० ) । सा च क्रियाजनकतावच्छेदकतया सिद्ध्यति इति
ज्ञेयम् (दि० १ ) । मूर्तद्रष्यमात्रवृत्तिगुणास्तु परत्वम् अपरत्वम् परम-
महत्त्वमिन्नं परिमाणं चेति (भा०प० श्लो० २५ ) । अत्रेदं बोध्यम् ।
निबिडानामेव मूर्तानां समानदेशत्वं विरुद्धम् इति नियमः । तेन चक्षुरा-
०
८३ न्या० को०