This page has not been fully proofread.

६५६
 
न्यायकोशः ।
 
मुख्यत्वम् । फलनिष्ठं मुख्यत्वं च प्रवृत्त्युद्देश्यत्वम् ( राम० ) । यथा
*1. सुखसंवेदनरूपफलस्य मुख्यत्वम् । विशेष्यतानिष्ठं मुख्यत्वं च प्रकार -
(Foo २) इति विज्ञेयम् । यथा घटवद्भूतलम् इति
ज्ञाने भूतलनिष्ठविशेष्यताया मुख्यत्वम् । एवम् अन्यनिष्ठान्यपि मुख्य-
त्वानि स्वयमूह्यानि ।
 
मुनिः – सप्तमी ( पु० चि० पृ० ३७ ) ।
 
मूढम् – (चित्तम् ) तमःसमुद्रे मग्नं निद्रावृत्तिमच्चित्तं मूढमिति गीयते
( सर्व० सं० पृ० ३५४ पात० ) ।
 
मूर्छनम्–१ समानजात्योः समानजवयोर्वा वाय्बोर्विरुद्धदिक्रिययोः संनि-
पात: (संयोगविशेष: ) ( प्रशस्त० वायुनि० पृ० १८) । यथा
• वायोर्वायुसंमूर्छनं नानात्वलिङ्गम् (वै० २।१।१४ ) इत्यादौ । संमूर्धनं
तृणतूलादीना मूर्ध्वगमनानुकूलं तत्संपादकतयानुमीयमानं वायुनानात्वे
• लिङ्गम् इति सूत्रार्थ: (वै० वि० २।१।१४) । २ वेदान्तिनस्तु मोहः ।
★ सच जाग्रत्स्वमसुषुप्त्येतत्रयावस्थातिरिक्तो बाह्येन्द्रियव्यापारशून्यावस्थ
विशेषः । यथा ॐ मुग्धेर्धसंपत्तिः परिशेषात् ॐ ( ऋ० सू० ३/२/१०)
.. इत्यादौ मोहो मूर्छा इत्याहु: । मूर्छाभवने कारणमुच्यते भिषग्भः ।
बहुदोषस्य विरुद्धाहारसेविनः । वेगाघातादभिधाताद्धीनसत्त्वस्य वा पुनः ॥
करणायतनेषूग्रा बाह्येष्वाभ्यन्तरेषु च । निविशन्ते यदा दोषास्तदा मूर्छन्ति
मानवाः ॥ ( भावप्र० ) इति । अस्या अवस्थाया जाग्रदाद्यवस्थात्रया-
तिरिक्तत्वेन तुरीयत्वे मानं तु दुःखानुसंधानमेव इति । मोहावस्थ
"जीवस्य परमेश्वरेर्धप्राप्तिः इति च विज्ञेयम् ( मध्व० मा० ३/२/१०) ।
३ गानाङ्गभूतः खरारोहावरोहक्रमविशेषः । यथा स्फुटीभवनामविशेषमूर्छ-
नाम् ( माघ० स० १ श्लो० १०) इत्यादौ इति गायका वदन्ति । अत्र
मूर्च्छनालक्षणमुच्यते । स्वरः संमूर्छितो यत्र रागतां प्रतिपद्यते । मूर्छना-
• मिति तां प्राहुः कवयो ग्रामसंभवाम् ॥ इति ( वाच० ) । कमात्स्वराणां
सप्तानामारोहश्चावरोहणम् । सा मूर्च्छत्युच्यते ग्रामस्था एताः सप्त सप्त
च ॥ इति । ग्रामत्रयेपि प्रत्येकं सप्त सप्त मूर्छना इत्येकविंशतिर्मुर्छना
भवन्ति ( माघ टी० स० १ श्लो० १० ) । अन्यच्च सप्त स्वरास्त्रयो ग्रामा