This page has not been fully proofread.

न्यायकोशः ।
 
१७
 
शब्दाध्याहार एव स्वीक्रियते न त्वर्थाध्याहारः । मीमांस कैस्त्वर्थाध्याहारः
स्वीक्रियत इति । २ तर्क: । ३ अपूर्वोत्प्रेक्षणमित्यपि केचित् (वाच ० ) ।
अध्यूहनम् - भस्मनाङ्गारश्चानेरुपर्याच्छादनम् ( जै० न्या० अ० १०
पा० १ अधि० ११ ) ।
 
-
 
अध्येषणा – ( लिङर्थः विधि: ) [ क ] या श्रोतरि पूजा संमानव्यञ्जिका
सा ( कु० ५ ) । [ ख ] अध्येषणीये प्रयोक्तुरनुग्रहद्योतिका इच्छा
( वै० सा० द० ) । [ग ] इच्छाविशेषः । यथा पाकं कुर्यामित्यादा-
वुत्तमपुरुषार्थः ( दि०गु० ) । [घ ] सत्कारपूर्वकमाचार्यादेः प्रेरणमिति
केचित् ( वै० सा० द० ) ।
 
अनङ्गत्रयोदशी – मार्गशीर्ष शुक्लत्रयोदशी ( पु० चि० पृ० २२३ ) ।
अनतिरिक्तत्वम् – स्वान्यूनवृत्ति ( यत् ) तत्कत्वम् ( दीधि० २ ) ।
यथाभिधेयत्वानतिरिक्तत्वं प्रमेयत्वस्येति ।
 
अनतिरिक्तविषैयकत्वम् - [क] प्रकृतपक्षे प्रकृतसाध्यवैशिष्ट्यविषय-
ताविलक्षणविषयताशून्यत्वम् ( दीधि० २) । यथा पर्वते धूमेन वह्निसा-
धने पर्वतो वह्निमानिति प्रतिज्ञावाक्यजन्यशाब्दबोधस्य पर्वतो वह्निमान्
इत्यनुमित्यन्यूनानतिरिक्तविषयकत्वम् । अत्रान्यूनविषयकत्वं च पक्षे
साध्य वैशिष्ट्यावगाहित्वम् ( दीघि ० २) । [ ख ] प्रकृतहेतुकप्रकृतसाध्य-
सिद्ध्यौपयिकव्यायविषयकत्वमिति केचित् ( दीधि० २ ) ।
अनतिरिक्तवृत्तित्वम् – ( अवच्छेदकत्वम् ) १ [ क ] स्वव्यापकं (यत्)
तत्कत्वम् । यथा हृदो वन्ह्यभाववान् इति निश्चयविषयितायाः हृदो
वह्निमान् इत्यनुमितिप्रतिबन्धकतानतिरिक्तवृत्तित्वम् ( ग० सामा० ) ।
अत्र स्वं विषयिता । तस्याः व्यापिका प्रतिबन्धकता । तत्कत्वं स्वस्मिन्निति
बोध्यम् । [ ख ] तच्छ्रन्यावृत्तित्वमिति केचित् ।
 
.
 
२[ कं ]तदवच्छिन्नप्रतियोगिताका भाव बदसंबद्ध स्वविशिष्टसामान्यकत्वम् ।
[ ख ] स्वविशिष्टसंबन्धिनिष्ठाभावप्रतियोगिता नवच्छेदकतत्कत्वम् । [ग]
 
१ इदमन तिरिक्त विषयकत्वं दीधितिप्रन्थस्थप्रतिज्ञालक्षणशरीर एव नान्यत्रेति ज्ञेयम् ।
न्या० को० ३