2023-11-02 14:30:33 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
अथातो धर्मजिज्ञासा इत्यारभ्य अन्वाहार्ये च दर्शनात् एतत्पर्यन्तो

द्वादशाध्याययुतः सूत्रोपनिबद्धः पूर्वमीमांसात्वेन प्रसिद्धोस्ति । द्वितीयस्तु

ब्रह्मविषयकसंशयनिवारको ग्रन्थो विष्ण्ववतारेण सत्यवतीसुतश्रीवेदव्यासेन

निर्मितः । स च ॐ अथातो ब्रह्मजिज्ञासा ॐ इत्यारभ्य ॐन पुनरा-

वर्तते ॐ इत्यन्तः सूत्रोपनिबद्धोध्यायचतुष्कसमेतो वेदान्तत्वेनोत्तरमीमां-

सावेन च प्रसिद्धोस्ति इति ।
 

 
<
मुक्तः>
भवान्तरप्राप्तिविधुरः ( सर्व० सं० पृ० ७१ आई० ) । अन्यत्र

चोक्तम् विद्यादिज्ञापितैश्वर्यश्चिद्धनो मुक्त उच्यते ( सर्व० सं० पृ० १९९

प्रत्य० ) ।
 
-
 

 
<
मुक्तत्वम्>
जीवत्वं नाम संसारित्वम् । तद्विपरीतं मुक्तत्वम् ( सर्व० सं०

पृ० २०६ रसे० ) ।
 
-
 

 
<
मुक्तिः -- >
१ संसारोपरमः । २ पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं

स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ( सर्व० सं० पृ० ३८७ पात० ) ।

३ नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिः (सर्व० सं० पृ० २५० अक्ष० ) ।

४ प्रकृतिपुरुषान्यत्वख्यातौ प्रकृत्युपरमे पुरुषस्य स्वरूपेणावस्थानं मुक्तिः

( सर्व० सं० पृ० २४९ अक्षपा० ) । ५ आवरणमुक्तिर्मुक्तिः ( सर्व०

सं० पृ० २४८ अक्षपा० ) । ६ लब्धानन्तचतुष्कस्य लोकागूढस्य

चात्मनः । क्षीणाष्टकर्मणो मुक्तिर्निर्व्यावृत्तिर्जिनोदिता ॥ ( सर्व० सं०

पृ० ८८ आई० ) । ७ गतसमस्तक्लेशतद्वासनस्यानावरणज्ञानस्य

सुखैकतानस्यात्मन उपरिदेशावस्थानं मुक्तिः ( सर्व० सं० पृ० ८१
 
आई० ) ।
 

(0) ८ रागादिज्ञानसंतानवासनोच्छेदसंभवा । चतुर्णामपि

बौद्धानां मुक्तिरेषा प्रकीर्तिता ॥ ( सर्व० सं० १० ४६ बौ० ) ।

९ मोचनम् निःसरणं वा मुक्तिः इति काव्यज्ञा आहुः ।
 

 
<
मुखम् - >
नाडिकापञ्चकम् । पञ्चनाडीपरिमितं मुखम् (पुच्छशब्दे दृश्यम् ) ।
 
-
 
-
 

 
<
मुख्यः - >
१ प्रथमकल्पः । २ श्रेष्ठः । ३ प्रधानम् । अत्रायं विशेषो ज्ञेयः ।

कारण निष्ठं मुख्यत्वं च स्वेतरासाधारणकारणककार्यकभिन्नत्वम् ।

( त० प्र० १ पृ० ७ ) । यथा मुक्ति प्रति तत्त्वज्ञानरूपकारणस्य