न्यायकोशः /707
This page has been fully proofread once and needs a second look.
भागद्वादशकेनैव तिथ्यां तिथ्यां क्रमेण तु । चन्द्रमा: कृष्णपक्षान्ते सूर्येण
सह युज्यते ॥ संनिकर्षादथारभ्य संनिकर्षमथापरम् । चन्द्रार्कयोर्बुधै-
र्मासश्चान्द्र इत्यभिधीयते ॥ सावने तु तथा मासि त्रिंशत्सूर्योदयाः
स्मृताः । आदित्यराशिभागेन सौरो मासः प्रकीर्तितः ॥ सर्वर्क्षपरिवर्तेस्तु
नाक्षत्रो मास उच्यते (पु० चि० पृ० ३ ) । अधिमासे तु षष्टिदि-
वसात्मको मासः । तदुक्तम् षष्ट्या तु दिवसैर्मासः कथितो बादरायणैः ।
पूर्वस्मिन्देवकार्याणि पितृकार्याणि चोभयोः ॥ ( पु० चि० पृ० २०) इति ।
<मासादिः>
इन्द्राग्नी यत्र हूयेते मासादिः स प्रकीर्तितः (पु० चि० पृ० १२) ।
<माहिष्य:>
( रथकारशब्दे दृश्यम् ) ।
<मितिः>
१ मानम् । २ ज्ञानम् । ३ अवच्छेदः । ४ विक्षेपः ( वाच० ) ।
<मित्रसप्तमी>
यद्विष्णोर्दक्षिणं नेत्रं तदेवाकृतिमत्पुनः । अदितेः कश्यपा-
ज्जातो मित्रो नाम दिवाकरः ॥ सप्तम्यां तेन सा ख्यातां लोकेस्मिन्मित्र-
सप्तमी ( पु० चि० पृ० १०४ ) ।
<मिथ्याज्ञानम्>
१ भ्रमः ( त० सं० ) । अनात्मनि देहादावात्मबुद्धिः
( सर्व० सं० पृ० २४४ अक्ष० ) । २ नास्तिकत्वम् ( अमरः ) ।
यथा मिथ्याज्ञानेन च तमो ज्ञानेनैव परं पदम् ( अणुवे० ) इत्यादौ ।
<मिथ्यात्वम्>
१ कालासंबन्धित्वम् । यथा शशविषाणकूर्मरोमवन्ध्यापुत्रा-
दीनां मिथ्यात्वम् । २ तुच्छत्वम् इति माध्याः प्राहुः । ३ निरुपाख्यत्वं
( निःस्वरूपत्वम् ) इति बौद्धा आहुः । ४ बाधज्ञाननिवर्त्यत्वम् । यथा
ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः इत्यादौ इति मायावादिवेदा-
न्तिनः शंकरभारतीप्रभृतयः मन्यन्ते ।
<मिश्रः>
जीवस्य उभयात्मा भावः ( सर्व० सं० पृ० ६८ आई० ) ।
<मिपषम्>
१ पराभिभवेच्छा । २ छलम् । ३ स्पर्धनम् (बाच० ) । ४ प्रयो
जनान्तरप्रवृत्तस्य प्रयोजनान्तरोद्भावनम् । एवं व्याजादिशब्दोपि व्याख्येयः ।
<मीमांसकः>
१ [ क ] मीमांसाशास्त्रज्ञः तदध्येता वा । यथा कुमारिल-
तुतातभट्टप्रभाकरादयो मीमांसकाः । अत्रार्थे व्युत्पत्तिः मीमांसां वेत्ति

<मि