2023-11-02 14:24:49 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
६५१
 
<महावारुणी- >
चैत्रकृष्णत्रयोदश्यां शनिवारयोगे सति शततारकानक्षत्रं

चेन्महावारुणी । वारुणेन समायुक्ता मधौ कृष्णत्रयोदशी । गङ्गायां यदि

लभ्येत सूर्यग्रहशतैः समा ॥ शनिवारसमायुक्ता सा महावारुणी स्मृता ।

गङ्गायां यदि लभ्येत कोटिसूर्यग्र है: समा ॥ शुभयोगसमायुक्ता शनौ

शतभिषा यदि । महामहेति विख्याता त्रिकोटिकुलमुद्धरेत् ॥ ( पु० चि०

पृ० २३१ ) ।
 

 
<
महाषष्ठी - >
वृश्चिकार्के शुलषष्ठी भौमवारेप्युपस्थिते । महाषष्ठीति सा प्रोक्ता

सर्वपापहरा तिथिः ॥ (पु० चि० पृ० १०२) ।
 

 

 
<
माध्यमिकः>
( बौद्धः ) गुरूक्तस्याकरणादुत्तमाः पर्यनुयोगस्याकरणादध-

माश्च । अतस्तेषां माध्यमिका इति प्रसिद्धिः ( सर्व० सं० पृ० ३० बौ० ) ।

 
<
मानः->
१ [ क ] ( दोषः ) आत्मन्यविद्यमानगुणारोपेणोत्कर्षधीः ( गौ०

वृ० ४।१।३) । यथा पराभवोप्युत्सव एव मानिनाम् ( किरा० स०

१ श्लो० ४१ ) इत्यादौ मानः । [ ख ] अभिमानः इति केचन

मन्यन्ते । २ परिमाणम् । यथा मानव्यवहारासाधारणकारणं परिमाणम्

इत्यादौ हस्ततुलाप्रस्थादिरूपो द्रव्यपरिच्छेदो मानम् । ३ प्रमाणम् ।

यथा मानाधीना मेयसिद्धिः इत्यादौ मानम् । ४ गानाङ्गे तालक्रियायां

तालविरामोपलक्षितः कालव्यापारो मानम् इति गायका आहुः ।

५ आलंकारिकास्तु अनुरक्तदम्पत्योरवस्थाविशेषः शृङ्गाराङ्गभूतः कोपः ।

तथा चोक्तम् । मानः कोपः स तु द्वेधा प्रणयेर्ष्यासमुद्भवः । द्वयोः प्रणय-

मानः स्यात्प्रमोदे सुमहत्यपि ॥ प्रेम्णः कुटिलगामित्वात्कोपो यः कारणं

विना (सा० द० प० ३ श्लो० २१८) इति । स्वाभीष्टाश्लेषवीक्षादि-

विरोधी मान उच्यते इति च । यथा मुञ्च मयि मानमनिदानम् (जयदेवः)

इत्यादौ इत्याहुः । ६ संमानः (आदर: ) इति काव्यज्ञा आहुः ।

 
<
मानसिक:-
-
 
5: –
>
( नमस्कारः ) । अत्र मानसिकत्वं च मानसत्वव्याप्यो जाति-

विशेष: ( मू० म० १ पृ० १०५ ) । अयं मत्त उत्कृष्टः अहमस्माद-

पकृष्टः इति ज्ञानविशेष: ( त० प्र० १ पृ० ३ - ४ ) । यथा प्रणम्य

परमात्मानं जानकीनाथशर्मणा ( न्या० म० १ पृ० १ ) इत्यादौ