2023-11-02 14:23:54 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

६५०
 
न्यायकोशः ।
 
उत्कीर्तनं हरेरेव देवानां च पृथक् पृथक् ॥ महापुराणं विज्ञेयमेकादशक-

लक्षणम् (ब्रह्मवै० ज० अ० १३२ ) इति ।
 
-
 

 
<
महाप्रलय:>
( प्रलयः ) [ क ] चरमसंयोगनाशः ( ग० सिद्धा० ) ।

[ख] सर्वभावकार्यध्वंसः ( त० दी० १ पृ० १० ) । केचित्तु

पौराणिकादयः जन्यभावानधिकरणकालः इत्याहुः । तस्योत्पत्तिनियमस्तु

महान् प्रलयो ब्रह्मणः स्वमानेन शतवर्षावसाने जायते इति । अत्रेदं

बोध्यम् । महाप्रलयानन्तरं न सृष्टि: । सर्वमुक्तौ सर्वोत्पत्तिनिमित्तस्या-

दृष्टस्यापायात् । सर्वभोक्त्रपवृक्तौ प्रयोजनाभावाच्च । न हि बीजप्रयो-

। जनाभ्यां विना कार्योत्पत्तिः इति ( प० मा० ) । महाप्रलयो न प्रमाण-

सिद्धः इति नव्यनैयायिका आहुः । अत्राधिकं तु प्रलयशब्दे द्रष्टव्यम् ।

 
<
महामाघी>
मेषराशौ यदा सौरिः सिंहे चन्द्रबृहस्पती । भास्करः श्रवणर्क्षे

स्यान्महामाघी च सा स्मृता ॥ ( पु० चि० पृ० ३१४ ) ।

 
<
महालयः - >
भाद्रपदापरपक्ष: ( पु० चि० पृ० २१ ) ।
 
-
 
——
 
महावाक्यम् -

 
<महावाक्यम्>
१ [क] स्वघटकानेकनामलभ्यतादृशार्थबोधकं वाक्यम् ।

अत्र तादृशार्थबोधस्तु तत्तदर्थावच्छिन्नविषयताशाली इति बोध्यम् ( श०

प्र० श्लो० ३० टी० पृ० ४४ ) । यथा महावाक्यार्थबुद्धिं प्रति खण्ड-

वाक्यार्थज्ञानं कारणम् इति कार्यकारणभावे वक्तव्ये पञ्चावयवोपेतन्याय-

वाक्यम् । अत्र प्रतिज्ञा दिघटितपञ्चावयवोपेतमहावाक्यजनितसमुदितार्थ-

विषयकशाब्दबुद्धौ प्रतिज्ञादिरूपावान्तरवाक्यार्थज्ञानं कारणम् इति कार्य-

कारणभावो द्रष्टव्यः । अत्रोच्यते भर्तृहरिणा स्वार्थबोधे समाप्तानामङ्गाङ्गि-

त्वव्यपेक्षया । वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते ॥ ( वाक्यपदीये)

इति । [ख ] परस्परसंबद्धार्थकं वाक्यसमुदायरूपमेकवाक्यम् । य

मीमांसकानां नये दर्शपूर्णमासाभ्यां यजेत ज्योतिष्टोमेन वर्गकामो यजेत

इत्यादि प्रधानवाक्यस्य गुणविधिना सह्रैकवाक्यत्वम् । २ अखण्डा

बोधकम् । यथा मायावाद्यद्वैतमते तत्त्वमसि ब्रह्माहमस्मि इत्यादीनि द्वादश

महावाक्यानि । साहित्यशास्त्रज्ञास्तु वाक्योच्चयो महावाक्यम् । यथा रामा-

यणमहाभारतरघुवंशादि ( सा० द० उ० २ श्लो० ७) इत्याहुः ।
 
20