2023-10-18 07:31:45 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
[ ख ] पठनम् । तच्च गुरुमुखोच्चारणानुसार्युच्चारणम् ।
 

[ग] ] सार्थाक्षरग्रहणमिति मीमांसकाः । यथा साङ्गो वेदोध्येतव्यो

ज्ञेयश्चेत्यादौ ।
 

[घ ] अक्षरमात्रपाठोध्ययनमिति वेदाक्षरपठनकर्तार इदानींतना वैदि-

कंमन्या मन्यन्ते ।
 
"
 

 
<
अध्यवसायः - >
१ इदमेवमेव - इति विषयपरिच्छेदो निश्चयः । २ उपात्त-

विषयाणामिन्द्रियाणां वृत्तौ सत्यां बुद्धेः रजस्तमोभिभवे सति यः सत्त्व-

समुद्रेकः सोयमध्यवसाय इति वृत्तिरिति च सांख्या आहुः । स चाध्य-

वसाय आत्मधर्म इति नैयायिकाः । बुद्धिधर्मः ( बुद्धेर्व्यापारः ) इति

सांख्यादयः ( सां० कौ० ) ।
 
अध्यात्मम् –

 
<अ[^१]ध्यात्मम्>
आत्मसंबन्धि । यथा - इत्यध्यात्ममित्यादौ ।

अध्यायः - १ अध्ययनम् । यथा स्वाध्यायोध्येतव्य इत्यादौ । २ वे-

दशास्त्रादिग्रन्थस्यैकार्थविषयसमाप्तिद्योतको विश्रान्तिस्थानमंशविशेषः ।

यथा श्रीभागवतस्य पञ्चमोध्याय इत्यादौ ।
 
अध्याव

 
[^१] अत्र आत्मानं दे
मिन्द्रिमादिकं क्षेत्रज्ञं ब्रह्म वाधिकृत्येति व्युत्पत्तिः ।
 
<अध्यावह
निकम्- >
यत्पुनर्लभते नारी नीयमाना पितुर्गृहात् । अध्यावहनिकं

नाम स्त्रीधनं तदुदाहृतम् ॥ ( मिताक्षरा अ० २ श्लो० १४३ )

 
<
अध्यासः - >
१ अयथार्थज्ञानम् । २ स्मृतिरूपः परत्र पूर्वदृष्टावभास इति

शंकरभारती वक्ति । यथा शुक्तौ इदं रजतमिति ज्ञानम् ( शारीर० ) "

स चाध्यासो द्विविधः - अर्थाध्यासो ज्ञानाध्यासश्चेति । तदुक्तम्-

प्रमाणदोषसंस्कारजन्मान्यस्य परात्मता । तद्धीश्चाध्यास इति हि द्वयमिष्टं

मनीषिभिः ॥ ( सर्वद० सं० शांक० पृ० ४२० ) ।
 
-
 

 
<
अध्याहारः - >
१ अश्रुतपदानामनुसंधानम् ( दि० ४ ) । यथा घटमान-

येत्युक्ते त्वमिति पदस्याध्याहारः । अध्याहारो द्विविधः । शब्दाध्याहारः ।

अर्थाध्याहारः । शब्दाव्याहारो नामाकाङ्क्षितार्थबोधकपदानुसंधानम् ।

अर्थाध्याहारो नामाकाङ्क्षितार्थानुसंधानम् । अत्रेदं बोध्यम् - नैयायिकैः
१ अत्र आत्मानं देहमिन्द्रिमादिकं क्षेत्रज्ञं ब्रह्म वाधिकृत्येति व्युत्पत्तिः ।