न्यायकोशः /70
This page has not been fully proofread.
न्यायकोशः ।
[ ख ] पठनम् । तच्च गुरुमुखोच्चारणानुसार्युच्चारणम् ।
[ग] ] सार्थाक्षरग्रहणमिति मीमांसकाः । यथा साङ्गो वेदोध्येतव्यो
ज्ञेयश्चेत्यादौ ।
[घ ] अक्षरमात्रपाठोध्ययनमिति वेदाक्षरपठनकर्तार इदानींतना वैदि-
कंमन्या मन्यन्ते ।
"
अध्यवसायः - १ इदमेवमेव - इति विषयपरिच्छेदो निश्चयः । २ उपात्त-
विषयाणामिन्द्रियाणां वृत्तौ सत्यां बुद्धेः रजस्तमोभिभवे सति यः सत्त्व-
समुद्रेकः सोयमध्यवसाय इति वृत्तिरिति च सांख्या आहुः । स चाध्य-
वसाय आत्मधर्म इति नैयायिकाः । बुद्धिधर्मः ( बुद्धेर्व्यापारः ) इति
सांख्यादयः ( सां० कौ० ) ।
अध्यात्मम् – आत्मसंबन्धि । यथा - इत्यध्यात्ममित्यादौ ।
अध्यायः - १ अध्ययनम् । यथा स्वाध्यायोध्येतव्य इत्यादौ । २ वे-
दशास्त्रादिग्रन्थस्यैकार्थविषयसमाप्तिद्योतको विश्रान्तिस्थानमंशविशेषः ।
यथा श्रीभागवतस्य पञ्चमोध्याय इत्यादौ ।
अध्यावह निकम्- यत्पुनर्लभते नारी नीयमाना पितुर्गृहात् । अध्यावहनिकं
नाम स्त्रीधनं तदुदाहृतम् ॥ ( मिताक्षरा अ० २ श्लो० १४३ )
अध्यासः - १ अयथार्थज्ञानम् । २ स्मृतिरूपः परत्र पूर्वदृष्टावभास इति
शंकरभारती वक्ति । यथा शुक्तौ इदं रजतमिति ज्ञानम् ( शारीर० ) "
स चाध्यासो द्विविधः - अर्थाध्यासो ज्ञानाध्यासश्चेति । तदुक्तम्-
प्रमाणदोषसंस्कारजन्मान्यस्य परात्मता । तद्धीश्चाध्यास इति हि द्वयमिष्टं
मनीषिभिः ॥ ( सर्वद० सं० शांक० पृ० ४२० ) ।
-
अध्याहारः - १ अश्रुतपदानामनुसंधानम् ( दि० ४ ) । यथा घटमान-
येत्युक्ते त्वमिति पदस्याध्याहारः । अध्याहारो द्विविधः । शब्दाध्याहारः ।
अर्थाध्याहारः । शब्दाव्याहारो नामाकाङ्क्षितार्थबोधकपदानुसंधानम् ।
अर्थाध्याहारो नामाकाङ्क्षितार्थानुसंधानम् । अत्रेदं बोध्यम् - नैयायिकैः
१ अत्र आत्मानं देहमिन्द्रिमादिकं क्षेत्रज्ञं ब्रह्म वाधिकृत्येति व्युत्पत्तिः ।