न्यायकोशः /699
This page has been fully proofread once and needs a second look.
६४५
ईर्ष्यान्तरायज्ञानावरणक्षयोपशमे सति परमनोगतस्यार्थस्य
स्फुटं परिच्छेदकं ज्ञानं मनःपर्याय: ( सर्व० सं० पृ० ६४ आई० ) ।
मननम् –
<मननम्>
[क] अनुमितिवदस्यार्थोनुसंधेयः ( कु० १ ) । [ ख ]
युक्तिभिरनुचिन्तनम् ( त० प्र० १ पृ० ८ ) ( म० प्र० पृ० १ )
( नील० पृ० ५० ) । यथा आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो
निदिध्यासितव्यः ( बृ० उ० २१४१५) इत्यादौ इतरभेदानुमितिः
( प० च० पृ० २० ) । अत्र मननं च आत्मा इतरेभ्यो भिद्यते इत्यात्मन
इतर भिन्नत्वेनानुमानम् ( नील० पृ० ५० ) । [ग] समस्तचिन्ता-
विषयं सिद्धिज्ञानं मननम् ( सर्व० सं० पृ० १६६ नकु० ) ।
<मनोग्राह्यगुणत्वम्
प्रत्यक्षात्मविशेषगुणवृत्तिगुणत्वव्याप्यजातिमत्त्वम् (प०
-
मा० ) । तादृशी जातिश्च बुद्धित्वसुखत्यादिः । अत्र मनोग्राह्यत्वं तु
मनोजन्यप्रत्यक्षविषयत्वम् । तच्च बुद्धित्वसुखत्वादौ सामान्ये जीवात्मनि
च संगच्छते इति ज्ञेयम् (मु० १) । मनोग्राह्यगुणाश्च बुद्धिसुख-
दुःखेच्छाद्वेषयत्नाः (प० मा० ) ( भा०प० श्लो० ५८ ) ।
<मनोजवित्वम्
निरतिशयशीघ्रकारित्वम् (सर्व० सं० पृ० १६६ नकु०) ।
-
<मन्त्रः
१ (वेदः ) [क] अनुष्ठानकारकद्रव्यदेवतादिलिङ्गस्मारको वेद-
भागः । यथा आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन इति अब्लिङ्गः
ऋगादिमन्त्रः । अत्रापस्तम्बबौधायनसूत्रम् मन्त्रब्राह्मणयोर्वेदनामधेयम् इति ।
[ख] प्रयोगसमवेतार्थस्मारको मन्त्रः इति मीमांसका आहुः । ऋग्यजुः-
प्रयो-
सामभेदादेते मन्त्रास्त्रिविधाः । अत्रेदं बोध्यम् । मन्त्राणामुच्चारणस्य
जनं च प्रयोगसमवेतार्थस्मरणमेव नत्वदृष्टम् (धर्माधर्मो ) । संभवति दृष्ट-
फले अदृष्टफलकल्पनमन्याय्यम् इति न्यायात् । अत्र नियमः मन्त्रैरेवार्थोनु-
स्मर्तव्यः नान्येन ( लौ० भा० पृ० ३९) इति । एतादृश नियमस्य फलं
त्वदृष्टमेव । एवं च मन्त्राणां प्रयोगविधिना सहैकवाक्यतया प्रामाण्यम् इति
ज्ञेयम् । अत्र जैमिनिना मन्त्रलक्षणमुक्तम् तच्चोदकेषु मन्त्राख्या । अस्यार्थः ।
तत् कर्मसमवेतार्थस्मरणं चोदकं फलं येषां तेषु मन्त्राख्या मन्त्रनाम
( जै० सू० वृ० अ० २ पा० १ सू० ३० ) । प्रायिकमिदम् । वसन्ताय