न्यायकोशः /698
This page has not been fully proofread.
६४४
न्यायकोशः ।
द्रष्टव्यम् । तथा मनोन प्रत्यक्षम् । अपि तु अनुमेयमेव । तथाहि ।
सुखदुःखोपलब्धयश्चक्षुरादिव्यतिरिक्तकरणसाध्याः असत्यपि चक्षुरादिषु
जायमानत्वात् घटवत् इति । यच्च सुखाद्युपलब्धिकारणम् तन्मनः
( त० भा० प्रमेयनि० पृ० ३२ ) । अथवा सत्यप्यात्मेन्द्रियार्थसांनिध्ये
ज्ञानसुखादीनामभूत्वोत्पत्तिदर्शनात् कारणान्तरमनुमीयते । श्रोत्राद्यव्यापारे
स्मृत्युत्पत्तिदर्शनात् बाह्येन्द्रियैरगृहीतसुखादिग्राहकान्तराभावाचेति ( प्र -
शस्त० मनोनि० पृ० २३ ) । आर्हतास्तु भौतिका एव परमाणवः
अणवो वा मनांसि इत्याहुः । वायुरेव मनः इत्यपि केचिदाहुः
( गौ० वृ० ३।१४० ) । नव्यास्तु अनुद्भूतविशेषगुणवदसमवेतभूतमेव
मन इत्याहुः ( राम० १ पृ० १९८) । मनो विभु इति मीमांसका
आहुः । तन्मते मनसो विभुत्वे प्रमाणमनुमानम् । तच्च मनो विभु
• निस्पर्शद्रव्यत्वात् आकाशवत् इति । जातेर्नियतसंस्थान व्यङ्ग्यत्वात् मनसि
च संस्थानाभावान्मनस्त्वं न जातिः । किंतु मनस्त्वं च आत्मान्यत्वे सति
ज्ञानासमवायिकारणसंयोगाश्रयत्वम् ( न्या० म० १११४ ) । अथवा
मनो विभु विशेषगुणशून्यद्रव्यत्वात्कालवत् इति । यद्वा मनो विभु ज्ञाना-
समवायिका रणसंयोगाधारत्वात् आत्मवत् इति ( वै० उ० ३/२/१ ) ।
• मनो नेन्द्रियम् इति मायावादिनो वेदान्तिनो वदन्ति । न्यायनये मन-
गुणास्तिष्ठन्ति संख्या अणुपरिमाणम् पृथक्त्वम् संयोगः विभागः
परत्वम् अपरत्वम् वेगश्चेति (वै० ३।२।२-३ ) ( प्रशस्त ० मनोनि०
पृ० २३ ) ( त० मा० ) ( न्या० म० ) ( भा०प० ) ( सि० च० ) ।
तथा च मनसः क्रियावत्स्वान्मूर्तत्वम् गुणवत्त्वाद्रव्यत्वम् प्रयत्नादृष्टपरि-
ग्रहवशादाशुसंचारित्वम् ( प्रशस्त० पृ० २३-२४ ) इति । माया-
• तन्मते सुखदुःखादीनामाधारः । अत्र श्रुतिं प्रमाणयन्ति मायावादिनः
वादिनस्तु संकल्पविकल्पात्मक वृत्तिमदन्तःकरणं मन इत्याहुः । तच्च
कामः संकल्पो विचिकित्सा श्रद्धा अश्रद्धा धृतिरभृतिभरित्येतत्सर्वे
मन एव ( बृ० उ० ११५/३ ) इति । न्यायमते तु तदाधार
इति भेदः । २ मनःशिलानामको धातुविशेषः इति भिषज आहुः ।
आत्मैव