2023-11-02 14:13:27 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
६४३
 
1
वैशेषिके सिद्धम् । एवं प्रतितन्त्र सिद्धान्तोत्र द्रष्टव्यः ( त० भा० पृ०

४२ - ४३ ) । सुखादिप्रत्यक्षसाधनत्वेनापि मन इन्द्रियं सिद्ध्यति

( न्या० वा० पृ० ४१ ) । अत्रेदं बोध्यम् । मनः सर्वविषयकज्ञानजनक-

मपि बहिर्विषयकज्ञानजनने परतन्त्रम् । स्वेतरबहिर्विषयकज्ञानजनकसामग्री-

सापेक्षम् इत्यर्थः । अबाह्यविषयकज्ञाने तु मनः स्वतन्त्रम् । अबाह्यानि

तु आत्मा तद्योग्यगुणाः तदभावः तद्वृत्तिजातिश्व इति ( न्या० म० १

पृ० ५ ) ( त० प्र० १ पृ० ३० ) । तच्च मनः प्रत्यात्मनियत-

त्वादनन्तम् अणु नित्यम् अतीन्द्रियं चेति ( त० सं० ) ( त० भा०

प्रमे० पृ० ३२ ) । अत्र समवेतभोगकारणत्वे सति असमवेतभोग-

कारणत्वं नियतत्वशब्दार्थः । द्वितीयार्थो निरूपितत्वम् । तस्य च सम-

वेतत्वद्वयेन्वयः । पञ्चम्यर्थः प्रयुक्तत्वम् । तस्य चानन्तत्वेन्वयः । तथा

च तत्तदात्मसमवेतभोगजनकत्व वि शिष्टतत्तदात्मासमवेतभोगजनकत्वप्रयु-

क्तानन्तत्ववन्मनः इति वाक्यार्थः ( वाक्य० पृ० ७ ) । तच्च प्रतिजीवं

भिन्नम् ( त० कौ० ) प्रतिशरीरमेकैकमेव (वै० उ० ३१२१३ ) ।

अत्र प्रमाणम् प्रयत्नायौगपद्याज्ज्ञानायौगपद्याञ्चैकम् ( वै० ३।२।३) इति ।

सिद्धम् । अत एव पृथक्त्वम्
 
प्र
प्र यत्नज्ञानायौगपद्यवचनात्प्रतिशरीरमेकत्वं
 

( प्रशस्त ० ) । मनसो विभुत्वाङ्गीकारे आत्मनो मनसा संयोगस्य ज्ञान -

कारणत्वानुपपत्तिः इति दूषणं बोध्यम् । इदमत्राकूतम् । आत्मा विभुः

इति सिद्धान्तः । तथा च मनसोपि विभुत्वाङ्गीकारे विभुद्वयस्यापि

संयोगापत्तिः । न च विभुद्वयसंयोगोस्तु इति वाच्यम् । तादृशसंयोगस्य

सर्वदा सर्वत्र सत्त्वप्राप्तौ सुषुप्तिरेवानुपपन्ना स्यात् । अतो मनोण्वेव

इत्यङ्गीकर्तव्यम् इति । तथा सुखादीनां पादे मे सुखम् शिरसि मे वेदना

इति प्रादेशिकत्वनियमार्थे प्रादेशिकासमवायिकारणम् आत्ममनः संयोग-

रूपमङ्गीकर्तव्यम् । शब्दादौ विभुकार्ये तथैवावधारणात् इति । योग-

शास्त्रबोधितप्रत्याहारान्यथानुपपत्त्या च मनोणुत्वसिद्धिः इति केचिदाहुः

( न्या० सि० दी० पृ० २१ ) । तथा मनो नित्यम् । तत्र प्रमाणं

सूत्रम् तस्य द्रव्यत्व नित्यत्वे वायुना व्याख्याते (३० ३।२१२ ) इति
 

 
.