2023-11-02 14:13:02 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

६४२
 
न्यायकोशः ।
 
(प० मा० ) । युगपज्ज्ञानानुत्पत्ति: मनसो लिङ्गम् (गौ० १।१।१६) ।

अत्र भाष्यम् । अनिन्द्रियजनिमित्ताः स्मृत्यादयः कारणान्तरनिमित्ता

भवितुमर्हन्ति इति । युगपञ्च खलु घ्राणादीनां गन्धादीनां च संनिकर्षेषु

सत्सु युगपद्भानानि नोत्पद्यन्ते । तेनानुमीयते अस्ति तत्तदिन्द्रियसंयोगि

सहकारि निमित्तान्तरम् अव्यापि यस्यासंनिधेर्नोत्पद्यते ज्ञानम् संनिघे-

श्चोत्पद्यते इति। मनःसंयोगानपेक्षस्य हीन्द्रियार्थसंनिकर्षस्य ज्ञानहेतुत्वे

युगपदुत्पद्येरन् ज्ञानानि ( वात्स्या० १ । १ । १६) इति । एतस्यार्थं वृत्तिकार

आह । युगपत् एककाले । एकात्मनि इति पूरणीयम् । ज्ञानाना-
.

मनुत्पत्तियतः स एव धर्मो ज्ञानकारणाणुत्वम् मनसो लिङ्गम् लक्षणम्

( गौ० वृ० १ । १ । १६) इति । अत्र विप्रतिपत्तिः । समयसौक्ष्म्याना-

कलनात्तत्र दीर्घशष्कुलीभक्षणादौ नानावधानादौ च यौगपद्याभिमानो

भ्रम इति नैयायिकाः संगिरन्ते ( न्या० दी० पृ० २१ ) । वेदान्तिनस्तु
.

मनसः संकोच विकासशालित्वात् ज्ञानानां यौगपद्यमयौगपद्यं चोपपद्यते

इत्याहुः ( म० प्र० १ पृ० १४ ) । मनसो लक्षणं च स्पर्शरहितत्वे

सति क्रियावत्वम् (त० दी० ) । वेगवत्प्राणपवनसंयोगाञ्चलनक्रियो

पपत्तिः इति केचिद्वदन्ति ( न्या० सि० दी० पृ० ४१ ) । अथवा

( पृ० ६ ) । यद्वा द्रव्यसमवायिकारणत्वरहिताणुसमवेतद्रव्यत्वापरजाति:

मानसत्वावच्छिन्न कार्यतानिरूपितकारणत्वे सतीन्द्रियत्वम् ( वाक्य ०

( सर्व० सं० पृ० २१९ औलू ० ) । मीमांसकास्तु आत्मान्यत्वे ति

ज्ञानासमवायिकारणसंयोगाश्रयत्वम् इत्याहुः (न्या० म० पृ० १४ ) ।

ख मनस्त्वाभिसंबन्धवत् ( त० भा० ) ( प्रशस्त० पृ० २३)

( न्या० म० ) । [ग] मयि सुखम् इति सुखप्रत्यक्षस्या साधारण

कारणम् (त० कौ ० ) ( ता० २० श्लो० ३० ) । अत्र मनसः

करणवे आत्ममनःसंयोगो व्यापारो बोध्यः ( त० कौ० ) । [ ध]

सुखाद्युपलब्धिसाधनमिन्द्रियम् ( गौ० वृ० १११/१६ ) ( त० भा०

८० पू० ३१ ) (भा० प० ) ( त० सं० ) । यथा सर्वार्थोपलब्धौ

नेन्द्रियाणि प्रभवन्ति इति सर्वविषयमन्तःकरणं मनः (वात्स्या० १/१/९) ।

मनस इन्द्रियत्वमाह नैयायिकस्य मन इन्द्रियम् । तच्च समानतत्रे
 
प्रत्यक्ष
 
अर्थ०