2023-11-02 14:12:32 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

६४१
 
न्यायकोशः ।
 
<मध्यवर्ती
 
>
<
मध्यस्थः (->
१ [क] वादिप्रतिषायुभयप्रयुक्तन्यायवाक्यद्वयजन्यविरुद्ध-

कोटिद्वयोपस्थितिजन्यसाध्यादिसंदेह प्रयोज्यैकतरसत्कोटिकानुमितिर्यस्य भ

बति सः । यथा हि पर्वतादौ वयादिसाधने वादिना पर्वतो वहि-

मान्धूमवत्वात् इत्यादिन्याये प्रयुक्ते प्रतिवादिना च पर्वतो न वह्रिमा-

न्पाषाणमयत्वात् इत्यादिवाक्ये प्रयुक्ते च सति मध्यस्थपुरुषस्य पर्वतो

वह्निमान्न वा इति संशयानन्तरं परामर्शादिद्वारा पर्वतो वह्निमान् इत्यनु-

मितिर्भवतीति ।[ख] वादिप्रतिवादिनोरन्ययोर्वा पक्षप्रतिपक्षयोर्वाक्यादि-

विषयविमर्शपूर्वकं तत्त्वनिर्णायकः । २ स्वार्थाविरोधेन परार्थसंपादकः ।

३ पूर्वापरयोः पदार्थयोरन्तरालस्थ: । ४ उदासीनः । यथा माध्यस्थ्य-

मिष्टेण्यवलम्बतेर्थे ( कुमार० स० १ श्लो० ५२ मल्लि० टी० ) इत्यादौ

इति काव्यज्ञा आहुः ।
 

 
<
मध्याह्नः>
( कालः ) १ त्रिधा विभक्तदिनस्य द्वितीयो भागः । २ पञ्चधा

विभक्तदिनस्य तृतीयो भागः । तदुक्तं दक्षस्मृतौ प्रातःकालो मुहूर्तास्त्रीन्

संगवस्तावदेव तु । मध्याहस्त्रमुहूर्त स्यात् इति ( वाच० ) ।
मन् -

 
<मन्>
( धातुः ) १ पूजायाम् । यथा देवतां मनुते । २ गर्वात्मकवृत्तौ ।

यथा पण्डितमानी चैत्रः इति । ३ बोधे । यथा मनुते अमनिष्ट मेने इति ।

मन्यते अमंस्त मेने इति च । ४ धृतौ । यथा मनयति अममनत् इति ।

 
<
मनः>
( द्रव्यम् ) १ [ क ] निस्पर्शमणु ( न्या० म० १।१४ ) ( वै०
 

७/११२३ ) ( गौ० वृ० १।१।१६ ) । अत्र व्युत्पत्तिः मन्यते अनेन

मनः इति । करणार्थे असुन् प्रत्ययः । तच्च मनः सर्वेन्द्रियप्रवर्तकम्

आन्तरेन्द्रियम् स्वसंयोगेन बाह्येन्द्रियानुग्राहकम् अत एव सर्वोपलब्धि-

कारणम् ( त० भा० प्रमेयनि० पृ० ३२ ) । मनः सद्भावे प्रमाणमनु-

मानम् । तच्चानुमानम् सुखादिसाक्षात्कारः करणसाध्यः जन्यसाक्षात्कार-

त्वाचाक्षुषसाक्षात्कारवत् इति । आत्मेन्द्रियार्थसंनिकर्षे ज्ञानस्य भावो-

भावश्च मनसो लिङ्गम् (वै० ३।२।१ ) । भावः अभावः इति पद-

च्छेदः । यत्संयोगव्यतिरेकात्सुषुप्तिकाले कार्यानुत्पादः तदेव मनः इति
 

८१ न्या० को०