न्यायकोशः /695
This page has not been fully proofread.
६४१
न्यायकोशः ।
मध्यवर्ती
मध्यस्थः (-१ [क] वादिप्रतिषायुभयप्रयुक्तन्यायवाक्यद्वयजन्यविरुद्ध-
कोटिद्वयोपस्थितिजन्यसाध्यादिसंदेह प्रयोज्यैकतरसत्कोटिकानुमितिर्यस्य भ
बति सः । यथा हि पर्वतादौ वयादिसाधने वादिना पर्वतो वहि-
मान्धूमवत्वात् इत्यादिन्याये प्रयुक्ते प्रतिवादिना च पर्वतो न वह्रिमा-
न्पाषाणमयत्वात् इत्यादिवाक्ये प्रयुक्ते च सति मध्यस्थपुरुषस्य पर्वतो
वह्निमान्न वा इति संशयानन्तरं परामर्शादिद्वारा पर्वतो वह्निमान् इत्यनु-
मितिर्भवतीति ।[ख] वादिप्रतिवादिनोरन्ययोर्वा पक्षप्रतिपक्षयोर्वाक्यादि-
विषयविमर्शपूर्वकं तत्त्वनिर्णायकः । २ स्वार्थाविरोधेन परार्थसंपादकः ।
३ पूर्वापरयोः पदार्थयोरन्तरालस्थ: । ४ उदासीनः । यथा माध्यस्थ्य-
मिष्टेण्यवलम्बतेर्थे ( कुमार० स० १ श्लो० ५२ मल्लि० टी० ) इत्यादौ
इति काव्यज्ञा आहुः ।
मध्याह्नः – ( कालः ) १ त्रिधा विभक्तदिनस्य द्वितीयो भागः । २ पञ्चधा
विभक्तदिनस्य तृतीयो भागः । तदुक्तं दक्षस्मृतौ प्रातःकालो मुहूर्तास्त्रीन्
संगवस्तावदेव तु । मध्याहस्त्रमुहूर्त स्यात् इति ( वाच० ) ।
मन् - ( धातुः ) १ पूजायाम् । यथा देवतां मनुते । २ गर्वात्मकवृत्तौ ।
यथा पण्डितमानी चैत्रः इति । ३ बोधे । यथा मनुते अमनिष्ट मेने इति ।
मन्यते अमंस्त मेने इति च । ४ धृतौ । यथा मनयति अममनत् इति ।
मनः – ( द्रव्यम् ) १ [ क ] निस्पर्शमणु ( न्या० म० १।१४ ) ( वै०
७/११२३ ) ( गौ० वृ० १।१।१६ ) । अत्र व्युत्पत्तिः मन्यते अनेन
मनः इति । करणार्थे असुन् प्रत्ययः । तच्च मनः सर्वेन्द्रियप्रवर्तकम्
आन्तरेन्द्रियम् स्वसंयोगेन बाह्येन्द्रियानुग्राहकम् अत एव सर्वोपलब्धि-
कारणम् ( त० भा० प्रमेयनि० पृ० ३२ ) । मनः सद्भावे प्रमाणमनु-
मानम् । तच्चानुमानम् सुखादिसाक्षात्कारः करणसाध्यः जन्यसाक्षात्कार-
त्वाचाक्षुषसाक्षात्कारवत् इति । आत्मेन्द्रियार्थसंनिकर्षे ज्ञानस्य भावो-
भावश्च मनसो लिङ्गम् (वै० ३।२।१ ) । भावः अभावः इति पद-
च्छेदः । यत्संयोगव्यतिरेकात्सुषुप्तिकाले कार्यानुत्पादः तदेव मनः इति
८१ न्या० को०