2023-11-02 14:02:16 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
६४०
<मतिः>
१ बुद्धिः ।
 
यथा तच्छ्रन्ये तन्मतिर्या स्यादप्रमा सा निरूपिता

( भा०प० श्लो० १२८) इत्यादौ मतिशब्दार्थो बुद्धिः । २ इच्छा ।

१३ मतिकरौषधम् (गरु० अ० १९८) इति भिषज आहुः (वाच० ) ।

५४ मननविशेषः । ज्ञानावरणक्षयोपशमे सतीन्द्रियमनसी पुरस्कृत्य

व्यापृतः सन्यथार्थे मनुते सा मतिः ( सर्व० सं० पृ० ६३ आई० ) ।

मत्सरः- ( दोषः ) [क] स्वप्रयोजनप्रतिसंधानं विना पराभित

निवारणेच्छा । यथा राजकीयादुदपानान्नोदकं पेयम् इत्यादि । [ ख ]

परगुणनिवारणेच्छा ( गौ० वृ० ४ । १ । ३ ) । अत्रापि स्वप्रयोजनप्रति-

संघानं विना इति पूरणीयम् इति तु वयम् । [ग] अन्यशुभद्वेषः इति

केचिदाहु: ( वाच० ) । [घ ] अन्ये तु निन्दन्ति मां सदा लोका

धिगस्तु मम जीवनम् । इत्यात्मनि भवेद्यस्तु धिक्कारः स च मत्सरः ॥
 

इत्याहुः ( क्रियायोगसारे ) ( वाच० ) ।
 

 
<
मदः - >
मद्यपानादिजन्यः अवस्थाविशेष: ( मिताक्षरा अ० २।२१४ ) ।
मद्यम् –

 
<मद्यम्>
मदहेतुर्द्रवद्रव्यविशेषः । यथा सर्व मद्यमपेयम् ( आपस्तम्बसू०

१।५।१७।२१ ) इत्यादौ । मुख्यतो मद्यानि द्वादशविधानि । माध्वीकं

पानसं द्राक्षं खार्जूरं तालमैक्षवंम् । मैरेयं माक्षिकं टाकं माधूकं नारि-

केलजम् ॥ मुख्यमन्नविकारोत्थं मद्यानि द्वादशैव तु इति । अत्र
 

व्युत्पत्तिः माद्यत्यनेन ( करणे यत् ) इति मद्यम् ।
 

 
<
मधुप्रतीकाः>
यथा मधुन एकदेशोपि स्वदते तथा प्रत्येकमेव ताः सिद्धयः

वदन्त इति मधुप्रतीकाः । ताश्च मनोजवित्वं विकरणभावः प्रधान-

जयश्चेति त्रिविधाः ( सर्व० सं० पृ० ३८५ पातञ्ज० ) ।
 

 
<
मधुभूमिक:
 
-
>
( योगी ) ऋतंभरप्रज्ञ: (सर्व० सं० पृ० ३८४ पातञ्ज० ) ।

 
<
मधुमती - >
अभ्यासवैराग्यादिवशादपास्तरजस्त मोलेश सुखप्रकाशमयसत्त्वभा-

वनयानवद्यवैशारद्यविद्योतन रूपऋतंभरप्रज्ञा ( सर्व० सं० पृ० ३८४
 

पातञ्ज ० ) ।
 

 
<
मध्यमसाहसम्>
चत्वारिंशंदधिकं
श्लो० १५३ ) ।
 
पणपञ्चशतम् ( मिताक्षरा व्य०
 
-
 
BONGO
 

 

श्लो० १५३ ) ।