न्यायकोशः /693
This page has been fully proofread once and needs a second look.
६३९
पृथगेव मङ्गलत्वम् । न तु विघ्ननिवर्तकतया । तत्र नानार्थं
तैव इति
तादिसंबन्धावच्छिन्न प्रारिप्सित विघ्नध्वंसत्वावच्छिन्नकारणतावत् इत्याहुः
तु
( म० वा० पृ० १० ) । [घ ] अगर्हिताभीष्टावाप्तिर्मङ्गलम् इति योग-
शास्त्रज्ञा आहुः । अभीष्टं च सुखावाप्तिदुःखपरिहाररूपतयेष्टम् ( सर्व ०
पृ० ३४१ पात० ) । २ प्रशस्ताचरणं मङ्गलम् इति धर्मज्ञा वदन्ति ।
३ हरिद्रा । ४ दूर्वा चेति काव्यज्ञा आहुः । पौराणिकमते मङ्गल-
द्रव्याण्यष्टौ लोकेस्मिन्मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः । हिरण्यं सर्पिरा-
दिव्य आपो राजा तथाष्टमः ॥ ( मत्स्यसूक्ते प०४२) ( वाच० ) इति ।
<मतानुज्ञा
( निग्रहस्थानम्) [क] स्वपक्षदोषाभ्युपगमात् परपक्षदोष-
प्रसङ्गो मतानुज्ञा ( गौ० ५/२/२१ ) । यः परेण चोदितं दोषं स्वपक्षे-
भ्युपगम्यानुद्धृत्य वदति भवत्पक्षे समानो दोषः इति स स्वपक्षे दोषाभ्यु-
पगमात्परपक्षे दोषं प्रसञ्जयन्परमतमनुजानातीति मतानुज्ञा नाम निग्रह-
स्थानमापद्यते ( वात्स्या० ५/२१२१ ) इति । [ ख ] स्वपक्षे दोष-
मनुद्धत्य परपक्षे दोषाभिधानम् ( दि० १) (नील० पृ० ४६ ) ।
यथा शब्दो नित्यः श्रावणत्वादित्युक्ते ध्वनावनैकान्तिकत्वेन हेत्वाभासो-
यम् इत्युक्तौ शब्दः अनित्यः कृतकत्वादिति साधिते ध्वनेरपि पक्षत्वान्न
दोषः इत्युक्तौ असिद्धत्वात् तवापि हेत्वाभासोयम् इत्युक्तौ सोयं मतानु-
ज्ञया निगृहीतः स्यात् । अप्रतिषिद्धमनुमतं भवतीति स्वपक्षे दोषाभ्यु-
पगमात् ( गौ० वृ० ५/२/२१ ) । [ग] स्वसिद्धान्ते परापादित -
दोषमनुद्धृत्य परस्यानिष्टबुद्ध्येष्टप्रसञ्जनम् । यथा केनचिदात्मनः पुरुषत्वा-
च्चोरस्त्वमसि इत्युक्ते तत एव हेतोः त्वमपि चोरः इति प्रसञ्जनम् । नित्यः
शब्दः कार्यत्वादित्युक्ते तत एव हेतोस्तवाप्यनित्यः स्यात् इत्यादीन्युदाहर-
णानि द्रष्टव्यानि । अत्र अनिष्टमेव परस्परं ब्रूयात् इति रहस्यम् (सार-
सं० परि० ३ श्लो० १४८ टी० पृ० ११५) । [घ] पराभिमतस्यार्थस्य
स्वप्रतिकूलस्य स्वयमेवाभ्यनुज्ञा ( स्वीकारः ) ( त० मा० ५० ५१ ) ।