2023-11-02 13:53:26 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

६३८
 
न्यायकोशः ।
 
चारविषयत्वं तु साध्यत्वेन फलान्यत्वेन वा विधेयतया कृतिविषयत्वम्

( म० वा० पृ० १ ) ( दि० १ मङ्ग० पृ० ५ ) । अलौकिकत्वं

विधिमन्तरा रागादिप्राप्तभिन्नत्वम् ( नील० १ पृ० २ ) । अत्र सांख्य-

सूत्रम् मङ्गलाचरणं शिष्टाचारात् फलदर्शनात् श्रुतितश्चेति ( सां० सू०

अ० ५ सू० १ ) इति । अत्रेदं बोध्यम् । मङ्गलं सफलमित्यनेनानु-

मानेन सफलत्वं सिद्ध्यत्समात्यादिरूपमुपस्थितफलमादायैव पर्य

( म० प्र० १ ) ( म० वा० १) । तथा ह्यनुमानम् मङ्गलं समाप्ति-

फलकम् समाप्यन्याफलकत्वे सति सफलत्वात् ( दि० १ मङ्गल० पू०

४ ) इति । अनेनानुमानेन समाप्तिफलकत्वं सिद्ध्य कर्तव्यत्वं साधयितुं

क्षमते । तथाहि मङ्गलं कर्तव्यम् समाप्तिफलकत्वात् इति ( नील० १

मङ्ग० पृ० २ ) । मङ्गलं च त्रिविधम् । तदुक्तम् आशीर्वादनमस्कारवस्तु-

निर्देशभेदतः । मङ्गलं त्रिविधं प्रोक्तं शास्त्रादीनां मुखादिषु ॥ (सि० च० )

इति । अत्र वस्तुनिर्देशश्च पुण्यजनक शब्द निबन्ध: पुण्यकृत्स्तुतिप्रतिपादक-

शब्दो वा ( म० वा० पृ० १० ) । [ख ] नव्याः चिन्तामणि-

कृतस्तु विघ्नोत्सारणासाधारणं कारणम् ( म० प्र० १ पृ०२ ) इत्याहुः ।

एतन्मते मङ्गलत्वं च तद्विघ्नोपशमहेतुत्वेन वेदविहितत्वम् ( चि० १

मङ्ग० पृ० १०१ ) । तथा चैतन्मते मङ्गलस्य फलं विघ्नध्वंस एव ।

समाप्तिस्तु बुद्धिप्रतिभादिविघ्नसंसर्गाभावरूपस्वकारणकलापाद्भवति इति

विज्ञेयम् (नील० १ मङ्गल० पृ० २ ) ( मु० १ मङ्गल० ) ( दि० १

मङ्ग० ८-९ ) । विघ्नोत्सारणेत्यादिलक्षणं च शशधरीये न्यायसिद्धान्त-

दीपे उक्तम् । तदर्थश्च समाप्तिप्रतिबन्धकदुरितविशेषो विघ्नस्तस्योत्सारणं

नाशस्तदसाधारणं कारणं मङ्गलपदवाच्यम् ( म० प्र० १ पृ० २) इति ।

अत्र किरणावली । मङ्गलमाचरेत् इति न विधिः । किं तु नमस्कारादि-

कमाचरेत् इति प्रत्येकमेव विधिकल्पनम् इत्यस्मद्गुरवः ( किर० पृ० ६ )

इति । तत्त्वचिन्तामणौ चोक्तम् । मङ्गलमाचरेत् इति न विधिः । किंतु

निर्विघ्नसमाप्तिकाम: प्रारिप्सितविघ्नोपशमनकामो वा देवतास्तुतिमाचरेत्

इत्यादिः प्रत्येकमेव विधिः । मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् ।