2023-11-02 13:53:08 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
६३७
 
तफलम् । श्रौतात्साङ्गात्कर्मणः फलावश्यंभावनियमात् । नतु विघ्नध्वंसो

मङ्गलस्य फलम् । तस्यापुरुषार्थत्वात् (वै० उ० १११।१ ) इति ।

अत्र शङ्का । कृतमङ्गलस्यापि कादम्बर्यादौ फलादर्शनात् अकृतमङ्गल-

स्यापि किरणावल्यादौ समाप्तिरूपफलदर्शनाच्च ग्रन्थारम्भे मङ्गलं नानु-

ष्ठेयम् । नहि निष्फले प्रेक्षावान् प्रवर्तते इति । अत्रोत्तरम् । मङ्गला-

करणस्थले किरणावल्यादौ जन्मान्तरीयस्य मङ्गलस्य मङ्गलकरणस्थले

कादम्बर्यादौ चाङ्गवैगुण्यस्य कल्पनया सफलत्वं निश्चीयते इति । जन्मा-

न्तरीयमङ्गलानुमानं तु इदम् मङ्गलम् आरब्धकर्माङ्गम् कर्मार्थितया

शिष्टैस्तत्पूर्व क्रियमाणत्वात् फलान्तराभावे सति फलवकर्मारिप्समानेन

नियमतस्तत्पूर्व क्रियमाणत्वाच्च दर्शे प्रयाजवत् ( चि० १ मङ्गलवा० पृ०

१९) इति । अत्र मङ्गलस्य स्वाभिमतहेतुत्वे तथा विधशिष्टाचारानुमित-

श्रुतिरेव मानम् ( चि० १ मङ्गलवा० पृ० १५) । अनुमितश्रुतिश्च

समाप्तिकामो मङ्गलमाचरेत् इति । अत्र श्रुत्यनुमानं तु नमस्कारादिकम्

मङ्गलम् वेदबोधितसमाप्तिसाधनताकम् समात्युद्देश्यकालौकिका विगीत-

शिष्टाचारविषयत्वात् दर्शादिवत् इति । अत्र यो यदुद्देश्यकाविगीत-

शिष्टाचारविषयः स वेदबोधिततत्साधनताकः यथा दर्शः इति सामान्यतो

व्याप्तिर्दृष्टव्या ( मू० म० १ मङ्गल० पृ० १६ ) । अथवा मङ्गलं वेद-

बोधितकर्तव्यताकम् अलौकिका विगीत शिष्टाचारविषयत्वाद्दर्शश्राद्धवत्

(त० दी० १ मङ्ग० पृ० २ ) इति । मङ्गलस्य कर्तव्यत्वे प्रमाणमनुमान-

मपि । तच्च मङ्गलं सफलम् अलौकिकाविगीतशिष्टाचारविषयत्वात् अग्नि-

होत्रवदिति । अत्र शिष्टश्च वेदप्रामाण्याभ्युपगन्ता । वेदप्रामाण्यानभ्युपग-

मविरोधिमत्त्वमिति यावत् । विरोधी तु सर्वे वेदाः प्रमाणमिति ज्ञानं

तादृशसंस्कारश्च ( म० प्र० १ ) ( मू० म० १ मङ्गल० पृ० १६ ) ।

सफलत्वं च बलवदनिष्टाननुबन्धीष्टफलकत्वम् । अविगीतत्वं तु बलवद-

निष्टाननुबन्धित्वम् । तच्च स्वजन्येष्टापेक्षयाधिका निष्ठजनकत्वं यद्यत् तद्भि-

नत्वम् ( म० वा० पृ० १ ) । अथवा धर्मशास्त्रानिषिद्धत्वम् ( नील०

१ मङ्ग० पृ० २ ) । शिष्टत्वं चेष्टसाधनत्वांशे अभ्रान्तत्वम्। आ-
1