This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१५
 
<अधिकार विधिः - >
फलस्वाम्यबोधको विधिरधिकारविधिः ( मी० न्या०

पृ० ४६ ) ।
 
-
 

 
<
अधिवत्सरः>
यस्मिश्चान्द्रसंवत्सरे मध्यममानेन गुरोः संक्रान्तिर्नास्ति सोधि-

वत्सर: ( पु० चि० पृ० ११ ) ।

 
<
अधिविन्ना>
भर्त्रा विवाहान्तरे कृते पूर्वमूढा ।
 
-
 

 
<
अधिवेदनम्>
धर्मपत्नयां सत्यां रागत एव विवाहान्तरकरणम् ।
 
-
 

 
<
अधिगमः - >
१ ज्ञानम् । २ प्राप्तिः । ३ स्वीकारः (वाच०) । ४ निध्यादेः

प्राप्तिरिति व्यवहारज्ञाः । ५ व्याख्यानादिरूपपरोपदेशजनितं ज्ञानमधि-

गम इत्यार्हता आहुः ( सर्व० आई० पृ० ६३ ) ।
 
1
 

 
<
अधिश्रयणम्>
विक्लित्तिहेतुभूतश्चुल्लयुपस्थापनरूपो व्यापारः । यथा तण्डुलं

पचतीत्यादौ पाकानुकूलोवान्तरव्यापारः ।
 

 
<
अधिष्ठाता>
१ अध्यक्षः । २ नियन्ता । ३ अधिदेवः । यथा आत्मेन्द्रिया-

द्यधिष्ठाता ( भा०प० श्लो० ४७ ) इत्यादौ ।
 

 
<
अधिष्ठानम्>
१ आश्रयः । यथा प्राणसंचारादेः प्राणवहनाड्यादिः ( दि०

२३१) । २ आरोपविशेष्यः । यथा शुक्ती रजतस्याधिष्ठानम् ।

 
<
अधीनत्वम् - >
१ [क] प्रयोज्यत्वापरपर्यायः स्वरूपसंबन्धविशेषः । यथा

दण्डाधीनो घट इत्यादावधीनत्वम् ।
 

[ख] एतत्समयसंबन्धो दण्डाधीन इत्यादिप्रतीतिसाक्षिकः स्वरूपसंब-

न्धविशेष इति केचित् ( मू० म० १ ) । २ तन्निर्वाह्य निश्चय कार्यका-

रिताप्रयोजकरूपवत्वम् ( ग० बाघ ० ) ।
 
4
 

 
<
अध्यक्षम्
––
>
१ प्रत्यक्षम् । यथा उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत्

( भा०प० श्लो० १५२ ) इत्यादौ । २ प्रत्यक्षविषयः । यथा अध्यक्षो

विशेषगुणयोगतः ( भा०प० श्लो० ४९ ) इत्यादौ ।

 
<
अध्ययनम्>
[ क ] उच्चारणोत्तरकालिको नियमपूर्वको ग्रन्थस्वीकारानु-

कूलो व्यापारः । यथा उपाध्यायादधीत इत्यादौ धात्वर्थः (ल० म० ) ।

१ अत्र उच्चारणाश्रयोपादानम् । उपाध्यायान्निः सरन्तं ग्रन्थमधीते इत्यर्थः (ल०म०)।