This page has not been fully proofread.

न्यायकोशः ।
 
१५
 
अधिकार विधिः - फलस्वाम्यबोधको विधिरधिकारविधिः ( मी० न्या०
पृ० ४६ ) ।
 
-
 
अधिवत्सरः – यस्मिश्चान्द्रसंवत्सरे मध्यममानेन गुरोः संक्रान्तिर्नास्ति सोधि-
वत्सर: ( पु० चि० पृ० ११ ) ।
अधिविन्ना — भर्त्रा विवाहान्तरे कृते पूर्वमूढा ।
 
-
 
अधिवेदनम् – धर्मपत्नयां सत्यां रागत एव विवाहान्तरकरणम् ।
 
-
 
अधिगमः - १ ज्ञानम् । २ प्राप्तिः । ३ स्वीकारः (वाच०) । ४ निध्यादेः
प्राप्तिरिति व्यवहारज्ञाः । ५ व्याख्यानादिरूपपरोपदेशजनितं ज्ञानमधि-
गम इत्यार्हता आहुः ( सर्व० आई० पृ० ६३ ) ।
 
1
 
अधिश्रयणम् – विक्लित्तिहेतुभूतश्चुल्लयुपस्थापनरूपो व्यापारः । यथा तण्डुलं
पचतीत्यादौ पाकानुकूलोवान्तरव्यापारः ।
 
अधिष्ठाता – १ अध्यक्षः । २ नियन्ता । ३ अधिदेवः । यथा आत्मेन्द्रिया-
द्यधिष्ठाता ( भा०प० श्लो० ४७ ) इत्यादौ ।
 
अधिष्ठानम् – १ आश्रयः । यथा प्राणसंचारादेः प्राणवहनाड्यादिः ( दि०
२३१) । २ आरोपविशेष्यः । यथा शुक्ती रजतस्याधिष्ठानम् ।
अधीनत्वम् - १ [क] प्रयोज्यत्वापरपर्यायः स्वरूपसंबन्धविशेषः । यथा
दण्डाधीनो घट इत्यादावधीनत्वम् ।
 
[ख] एतत्समयसंबन्धो दण्डाधीन इत्यादिप्रतीतिसाक्षिकः स्वरूपसंब-
न्धविशेष इति केचित् ( मू० म० १ ) । २ तन्निर्वाह्य निश्चय कार्यका-
रिताप्रयोजकरूपवत्वम् ( ग० बाघ ० ) ।
 
4
 
अध्यक्षम्
–– १ प्रत्यक्षम् । यथा उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत्
( भा०प० श्लो० १५२ ) इत्यादौ । २ प्रत्यक्षविषयः । यथा अध्यक्षो
विशेषगुणयोगतः ( भा०प० श्लो० ४९ ) इत्यादौ ।
अध्ययनम् – [ क ] उच्चारणोत्तरकालिको नियमपूर्वको ग्रन्थस्वीकारानु-
कूलो व्यापारः । यथा उपाध्यायादधीत इत्यादौ धात्वर्थः (ल० म० ) ।
१ अत्र उच्चारणाश्रयोपादानम् । उपाध्यायान्निः सरन्तं ग्रन्थमधीते इत्यर्थः (ल०म०)।