This page has not been fully proofread.

न्यायकोशः ।
 

 
पीतः शङ्ख लोहितः स्फटिकः इत्यादि ज्ञानम् (त० कौ० ) (भा०
प० श्लो० १२९ ) । यथा वा कृशोहम् बधिरः स्थूलः इति ज्ञानम्
( त० व० ) । भ्रमो द्विविधः विपर्यासः ( विपर्ययः ) संशयश्च । तत्राद्यो
यथा शरीरादौ आत्मत्वप्रकारकं गौरोहम् इत्याकारकं निश्चयरूपं ज्ञानम्
( मु० गु० ) । द्वितीयो यथा स्थाणुर्वा पुरुषो वा इति संशयरूपः
( भा० प० श्लो० १३० ) । प्रकारान्तरेण भ्रमो द्विविधः निरुपाधिकः
सोपाधिकश्च । तयोः स्वरूपं चेत्थम् । दोषेण कर्मणा वापि क्षोभिता-
ज्ञानसंभवः । तत्त्वविद्याविरोधी च भ्रमोयं निरुपाधिकः ॥ उपाधि-
संनिधिप्राप्तक्षोभाविद्याविजृम्भितम् । उपाध्यपगमापोह्यमाहुः सोपाधिकं
भ्रमम् ॥ ( सर्व० सं० पृ० ४२१ शां० ) । [ङ ] मिथ्याज्ञानापर-
पर्यायः अयथार्थनिश्चयः ( गौ० वृ० ४ । १ । ३ ) ( त० सं० ) । अयं
च मोहपक्षान्तर्गतो दोषविशेष इति विज्ञेयम् । [च ] विपरीतनिर्णयः
( त० कौ० ) । अयं तु अप्रमाप्रभेदः । भ्रमसंशयभेदेन द्विविधा
अप्रमा इति विभजनात् । तेन अत्रत्यभ्रमत्वस्य निर्णयत्वरूपस्य संशया-
साधारणत्वेपि न क्षतिः । २ [क] अतिरिक्तविषयतापक्षे यत्प्रकारिका
या विषयता तत्प्रकारव्यधिकरणविषयताकं ज्ञानम् । विषयतापक्षे इत्यस्य
प्रकारताविशेष्यतावच्छेदकतातिरिक्ता सविषयका च इति पक्षे इत्यर्थः ।
यत्प्रकार केल्यादेरर्थश्च प्रकारो धर्मः तद्धर्माधिकरणावृत्तितद्विषयताकं
ज्ञानम् इति । मिश्रास्तु तत्प्रकारव्यधिकरणत्वं तत्प्रकारानधिकरणवृत्ति-
त्वम् इत्याहु: ( मू० म० १ पृ० ४१९ ) । [ ख ] स्वप्रकारव्यधि-
करणविषयताकं ज्ञानम् । अत्र स्वप्रकारव्यधिकरणत्वं च स्वप्रकाराधि-
करणावृत्तित्वम् । मिश्रास्तु स्वप्रकारव्यधिकरणत्वं च स्वप्रकारानधि-
करणवृत्तित्वम् इत्याहुः । तेन ग्रन्थकर्तृमते रजतारजतसाधारणधर्मद्रव्य-
विशेष्यकं द्रव्यं रजतम् इत्यादिज्ञानस्य न रजतत्वादिभ्रमत्वम् । मिश्रमते
 
तु तस्य तद्भ्रमत्वमिष्टमेव इति ( मू० म० १ प्रामा० पृ० ४२० ) ।
[ग] स्वव्यधिकरण प्रकारावच्छिन्नविषयताप्रतियोगि ज्ञानम् । स्वव्यधि-
करणेति स्वाश्रयावृत्तिधर्मप्रकारके अर्थ: ( मू० म०१ प्रामा० पृ० ४२२ ) ।