2023-11-02 13:50:43 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

६३४
 
न्यायकोशः ।
 
<भोजनम्>
गलाधो नयनम् । तच्च [ क ] गलाधःसंयोगावच्छिन्नक्रियानु-

कूलव्यापारः । यथा ओदनं भुङ्क्त इत्यादौ धात्वर्थः । अत्र भुजधात्वर्थ-

घटके तादृशक्रियारूपफल एव ओदनवृत्तित्वान्वयः (ग० व्यु० का० २

पृ० ४३ ) । [ख प्राञ्चस्तु कठिनद्रव्यस्य गलबिलाधःसंयोजनं
 

भोजनम् इत्याहुः ।
 

 
<
भ्रमः>
१ (अप्रमा ) क यत्र यन्नास्ति तत्र तस्य ज्ञानम् । समुदा-

यार्थश्च तदभाववन्निरूपिततन्निष्ठविषयताप्रतियोगि ज्ञानम् इति । अ

स्मृतेरपि भ्रमतया अनुभवत्वमपहाय ज्ञानत्वप्रवेशः ( मु० म० १

प्रामा० पृ० ४०५) । भ्रमश्च दोषाज्जन्यते । भ्रमलक्षणं तु स्वानुयो-

गिनिष्ठविशेष्यतानिरूपितत्व स्वप्रतियोगिनिष्ठत्व स्वावच्छिन्नत्व एतत्रितय -
 

संबन्धेन संबन्धविशिष्टान्यप्रकारताशालिज्ञानत्वम् ( ग० अव०
 
हेतु० )
 

इति । अत्र स्वपदार्थस्तु विशेष्यविशेषणयोर्भासमानः संबन्धो ज्ञेयः ।

विषये तावत् प्रसिद्धानेकविशेषस्यापि पित्तकफानिलोपहतेन्द्रियस्यायथार्थ-

अत्रेदमवधेयम् । विपर्ययोपि प्रत्यक्षानुमानविषय एव भवति । प्रत्यक्ष-

लोचनात् संप्रत्यसंनिहित विषयविज्ञानजसंस्कारापेक्षादात्ममनसोः संयोगा-

दधर्माच्चातस्मिन् तत् इति प्रत्ययो विपर्ययः । यथा गव्येव अश्वः इति ।

असत्यपि प्रत्यक्षे प्रत्यक्षाभिमानो भवति । यथा अपगतघनपटलमचल-

जलनिधिसदृशमम्बरम् अञ्जनचूर्णपुजश्यामं शार्वरं तमः इति । अनुमान-

विषयेपि बाष्पादिभिर्धूमाभिमतैर्वानुमानम् गवयविषाणदर्शनाञ्च गौः

विपर्यय: ( प्रशस्त० पृ० २४ ) । [ख तदभाववति तत्प्रकारक-

इति त्रयीदर्शन विपरीतेषु शाक्यादिदर्शनेषु इदं श्रेयः इति मिथ्याप्रत्ययो

ज्ञानम् ( चि० १ प्रामा० पृ० ४०१ ) ( त० प्र० १ ) (त० दी० ) ।

[ग] अतस्मिन् तत् इति प्रत्ययः ( न्या० वा० १ पृ० २६ )

( भा० प० श्लो० १२८ ) ( त० भा० पृ० ४० ) । घ विशे-

ष्यताव्यधिकरणप्रकारक ज्ञानम् ( म० प्र० ४ पृ० ७३ ) । यथा

पुरोवर्तिन्येवारजते शुक्त्यादौ रजतारोपः । इदं रजतम् इति ज्ञानम्

( त० भा० पृ० ४० ) ( त० प्र० १ ) ( त० दी० ) । यथा वा