2023-11-02 13:50:11 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 

 
विशिष्टस्यैव विशेषणस्य भेदकत्वम् । तदुक्तम् स्त्रीदाराद्यैर्यद्विशेष्यं यादृशैः

प्रस्तुतं पदैः । गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः ॥ ( अमर०

का० ३ वर्ग० १ श्लो० २) इति । यथा वा पृथिवी इतरेभ्यो

भिद्यते गन्धवत्त्वादित्यादौ गन्धवत्वरूपं पृथिवीलक्षणं जलादिभेदकम् ।

२ भेदकारकम् । यथा कुठारो भिनत्तीत्यादौ कुठारो भेदकः । अत्र

श्रीमध्वाचार्यैरुच्यते विद्यमानस्य भेदस्य ज्ञापको नैव कारकः

( उपा० ख० ) इति ।
 

 

 
<
भोग:->
१ [क] सुखदुःखान्यतरसाक्षात्कार : ( त० भा० पृ० ४ )

( त० दी० १ पृ० ७) ( वाक्य ० ) । [ख ] स्वसमवेतसुखदुःखा-

न्यतरलौकिकसाक्षात्कारः (प्र० प्र०) । यथा आत्मनो भोगायतनं शरीरम्

( त० दी० १) इत्यादौ भोगः । अत्र वेदान्तिनस्तु आनन्दमात्रानुभवो

भोगः । यथा ॐ भोगमात्रसाम्यलिङ्गाच्च ॐ (ब्रह्मसू० ४।४।२२ )

इत्यादौ इत्याहुः । अत्र भविष्यत्पुराणम् मुक्ताः प्राप्य परं विष्णुं तद्भोगाँ-

लेशतः कचित् । बहिःष्ठान् भुजते नित्यं नानन्दादीन् कथंचन ॥ ( मध्व-

मा० ४ ४ ४ ) इति । २ रव्यादीनां राशिगतिकालः इति ज्योतिर्विद

आहुः । अत्रोच्यते अतीतानागतो भोगो नाड्यः पञ्चदश स्मृताः

( तिथि० त० ) इति । ३ सर्पदेहः इति काव्यज्ञा आहुः ।

 
<
भोगायतनम्>
भोगस्यावच्छेदकम् । यथा यदवच्छिन्नात्मनि भोगो जायते

तद्भोगायतनम् (त० दी० १) इत्यादौ शरीरावच्छिन्न आत्मनि भोगो

जायत इति शरीरं भोगायतनम् । तच्च भोगायतनम् स्थूलदेहः इति

सांख्या आहुः । अत्र सूत्रम् भोक्तुरधिष्ठानाद्भोगायतननिर्माणम् । अन्यथा

पूतिभावप्रसङ्गात् (सांख्यसू० अ० ५ सू० ११४ ) इति । अत्र केचि -

द्वेदान्तिन आहुः । भोगसाधनं च लिङ्गशरीरमेव । तथा चोक्तम् पञ्चप्राण-

मनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् ॥

इति । सांख्यमते तु पञ्चप्राणस्थले पञ्चभूतमात्राः इति भेदः । स्थूलदेहस्य

भोगत्वं तु भोगावच्छेदकत्वात् उपचारात् इति बोध्यम् । अत्र सूत्रम्

तदधिष्ठानाश्रये देहे तद्वादात्तद्वादः (सांख्यसू० अ० ३ सू० ११) इति ।
 

८० न्या० को०