न्यायकोशः /686
This page has not been fully proofread.
६३२
न्यायकोशः ।
अत्र भूयःसहचारदर्शनं च व्यभिचारज्ञान विरहेण सहितमेव व्याप्तिग्राहकं
भवति न त्वन्यथा । पार्थिवत्वलोहलेख्यत्वयोः शतशः सहचारं पश्यतः
केवलसहचारदर्शनेपि हीरकादौ व्यभिचारदर्शनेन व्याप्तिग्रहानुदयात्
(सि० च० २ पृ० २४ ) ( त० दी० २ पृ० २१) । भूयो-
दर्शनशब्दस्यार्थविशेषं विकल्प्य तस्य व्याप्तिग्राहकत्वं खण्डयति नील-
कण्ठः । भूयोदर्शनम् इत्यस्य ( १ ) भूयसां दर्शनानां समाहारः इति
( २ ) भूयसां साध्य हेतूनां दर्शनम् इति ( ३ ) भूयस्त्वाधिकरणेषु
दर्शनम् इति वार्थः । नाद्यः । एकत्रैव सहचारदर्शनधारया व्याप्तिनिश्चय-
* प्रसङ्गात् । न द्वितीयतृतीयौ । एतद्रूपवानेतद्रसादित्यादौ साध्यहेत्वोरे-
कव्यक्तित्वात् साध्यहेत्वोरधिकरणे भूयस्त्वाभावेन व्याप्तिनिश्चया-
नुत्पादप्रसङ्गात् ( नील० २ पृ० २१ ) इति ।
भेदः - १ अन्योन्याभावः । २ प्रदः । ३ तादात्म्यातिरिक्तः संबन्धः
( म० प्र० ४ पृ० ४८) । यथा राजपुरुष इत्यादौ राजपदार्थपुरुष-
पदार्थयोर्भेदेनान्वयबोधः अव्युत्पन्नः इत्यादौ मेदः । अत्रायं नियमः
निपातातिरिक्तनामार्थयोः साक्षात् ( विभत्तयर्थमद्वारीकृत्य ) भेदेनान्वय-
बोध: अव्युत्पन्नः इति । एतादृशनियमस्वीकारेण राजा पुरुषः इत्यत्र
• स्वत्वसंबन्धेन राजपदार्थस्य पुरुषपदार्थे नान्वयबोधापत्तिः । ४
●राज्ञः सामाधुपायविशेषः इति नीतिशास्त्रज्ञा आहुः । [ख ] वैरिणो
बुद्धिभेदो भेदः ( जै० न्या० अ० १ पा० १ अधि० १ ) । तदुक्त-
मग्निपुराणे परस्परं तु ये द्विष्टाः क्रुद्धमीतावमानिताः । तेषां भेदं प्रयु
जीत परमं दर्शयेद्भयम् ॥ (अग्निपु० अ० २२५) इत्यादि । ५ पृथ
करणम् । ६ विदारणम् इति काव्यज्ञा आहुः । ७ विरुद्धधर्माध्यासः ।
तदुक्तं सर्वदर्शनसंग्रहे अयमेव हि मेदो भेदहेतुर्वा यद्विरुद्धधर्माभ्यासः
[ क ]
इत्यादौ
कारणमेदश्च ( सर्व० सं० पृ० ४०० शां० ) इति ।
भेदकम् – १ ( व्यावर्तकम् ) भेदज्ञापकम् । यथा नीलो घट
नीलत्वं विशेषणं रक्तघटादिभेदकम् । तदुक्तम् भेद्यं विशेष्यमित्याहुर्भेदक
च विशेषणम् इति । अत्र विशेष्यस्य यादृशे लिङ्गवचने तादृशलिङ्गवचन-