2023-11-02 13:40:27 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

६२८
 
न्यायकोशः ।
 
( भा०प० श्लो० ४२ ) इत्यादौ च सूर्यतेजसि विद्यमानस्य शुक्लरूपस्य

भास्वरत्वम् । अत्रोक्तं दिनकरभट्टैः भास्वरत्वं जातिविशेषः । स च तेजोरूप-

मात्रवृत्तिः शुक्लत्वव्याप्यश्च इति विज्ञेयम् ( दि० १ तेजोनि० पृ० ७८)।
भिक्षू –

 
<भिक्ष>
(धातुः) प्रार्थनम्। यथा नृपमर्थे भिक्षत इत्यादौ ( श० प्र० श्लो०
 

७३ टी० पृ० ११२) ।
 

 
<
भिक्षा>
१ याचनम् ( ल० म० ) । २ भक्षणीयमन्नम् । यथा भिक्षां

देहि त्वमर्थिभ्य इत्यादौ । अत्र भिक्षाशब्दस्य भक्षणीय इत्यर्थः (श०

० १०० टी० पृ० १५६ ) । अत्र भिक्षाशब्दः कर्मसाधन
 
प्र० श्लो०
 

इति बोध्यम् ।
 
भिदू -

 
<भिद्>
( धातुः ) १ अन्यत्वेन ज्ञापनम् । अत्र ज्ञापनं च ज्ञानविषयता-

प्रयोजकव्याप्तिपक्षधर्मता । तदाश्रयोसाधारणधर्म एव भिदादिकर्तृत्वा

द्भेदक उच्यते । अन्यत्व प्रकारकानुमितिविषयता रूपधात्वर्थतावच्छेदक

फलाश्रयो भिदाकर्मतया मेद्यः । एवं च पृथिवीतरेभ्यो भिद्यत इत्यादौ

पृथिव्यादेः कर्मतैव न केवलकर्तृता । २ भेदः । यथा पटाद्भिन्नम् घटा-

द्भिद्यते इत्यादी धात्वर्थः । ३ विदारणम् । यथा भिद्यते हृदयग्रन्थिः
 

इत्यादौ भिद्यते कुसूल इत्यादौ वा
भिधात्वर्थः ( ग० व्यु० का०
५पृ० १११ ) ।
 
भिधात्वर्थः ( ग० व्यु० का०
 

 
<
भिदा - >
भेदः (अन्योन्याभावः ) ।
 
भिन्नत्वम् –

 
<भिन्नत्वम्>
१ भेदानुयोगित्वम् । यथा घटः पटाद्भिन्नः इत्यादौ घटस्य

पटप्रतियोगिकमैदानुयोगित्वम् । एवम् अन्यत्वादयः शब्दाः स्वयं नि

र्वाच्याः । २ रोगविशेषनिष्ठो धर्मः इति भिषज आहुः । तदुच्यते

भावप्रकाशे शक्तिकुन्तेषुखड्गाग्रविषाणैराशयो हतः । यत्किंचित्प्रस्रवेत्तद्वि

भिन्नमित्यभिधीयते ॥ ( वाच० ) इति । आशयः कोष्ठः । ३ विदारण
 

कर्मत्वम् इति काव्यज्ञा आहुः ।
 

 
<
भुक्तिः>
उपभोगः (वहिवाट इति प्र० ) ।
 
-
 

 
<
भुजिष्या - >
(दासी) पुरुषनियतपरिग्रहा भुजिष्या (मिताक्षरा अ० २/२९०) ।
 
-
 
-