न्यायकोशः /681
This page has not been fully proofread.
न्यायकोशः ।
६२७
(१२) आमीरी (१३) चाण्डाली (१४) शाबरी (१५) पैशाची
(१६) शौरसेनिका (१७) प्राकृता (१८) एतदन्या तत्तद्देशभाषा
चेति (सा० ८० परि० ६ श्लो० १५८-१६९) । तत्तद्भाषालक्षणानि
च भाषार्णवे दृश्यानि । पात्रवर्णादिभेदेन भाषाप्रयोगस्तु साहित्यदर्पणे
षष्ठे परिच्छेदे प्रतिपादितः स तत्रैव दृश्यः । तत्र संस्कृता सर्वदेश-
भाषाणां मूलभूता । २ व्यवहारशास्त्रज्ञास्तु प्रतिज्ञासूचकं वाक्यं भाषा
इत्याहुः । मिताक्षरायां विज्ञानेश्वरेण भाषालक्षणमुक्तम् । यथा अर्थव-
द्धर्मसंयुक्तं परिपूर्णमनाकुलम् । साध्यवद्वाचकपदं प्रकृतार्थानुबन्धि च ॥
प्रसिद्धमविरुद्धं च निश्चितं साधने क्षमम् । संक्षिप्तं निखिलार्थे च देश-
कालाविरोधि च ॥ वर्तुमासपक्षाहोवेलादेशप्रदेशवत् । स्थानावसथ-
साध्याख्याजात्याकारवयोयुतम् ॥ साध्यप्रमाणसंख्यावदात्मप्रत्यर्थिनामवत् ।
परात्मपूर्व जानेकराजनामभिरङ्कितम् ॥ क्षमालिङ्गात्मपीडावत्कथिताहर्तृदा-
यकम् । यदावेदयते राज्ञे तद्भाषेत्यभिधीयते ॥ (मिताक्षरा अ० २ श्लो० ६) ।
भाषासमितिः - प्रिया बाचंयमानां सा भाषासमितिरुच्यते ( सर्व० सं०
पृ० ७९ आई० ) ।
भाषिकः – तत्तच्छाखीयब्राह्मणस्वरो भाषिक इत्युच्यते । तदुक्तमाचार्यैः
छन्दोगा बहुचाश्चैव तथा बाजसनेयिनः । उच्चनीचस्वरं प्राहुः स वै
भाषिक उच्यते ॥ (जै० न्या० अ० १२ पा० १ अधि० ८ ) ।
भाष्यम् – सूत्रार्थो वर्ण्यते येन पदैः सूत्रानुसारिभिः । स्वपदानि च
वर्ण्यन्ते भाष्यं भाष्यविदो विदुः ॥ इति भाष्यलक्षणम् ।
भासः—गोष्ठकुक्कुटः ।
-
भासनम् – १ दीप्तिः । २ विषयता । यथा घटत्वं घटे भासत इत्यत्र
भासधात्वर्थः । अत्र घटनिष्ठं विशेष्यत्वमवच्छेद्यतासंबन्धेन सप्तम्यानु-
भाव्यते । एवम् ज्ञाने घटत्वं भासत इत्यादौ निरूपितत्वमपि सप्तम्यानु-
भाव्यते इति विज्ञेयम् ( श० प्र० श्लो० ७१ टी० पृ० ९०) ।
भास्वरत्वम् – परप्रकाशकत्वम् ( वै० उ० २ । १ । ३ ) । यथा भास्वरं शुक्लं
तेजसि ( त० सं० ) इत्यादौ स्पर्श उष्णस्तेजसस्तु स्याद्रूपं शुक्कभास्वरम्