2023-11-02 13:35:48 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

६२६
 
न्यायकोशः ।
 

 
४ मीमांसकास्तु भवितुर्भवनानुकूलो भावयितुर्व्यापारविशेषः । यथा

यजेतेत्यादौ लिङाद्याख्यातार्थो भावनेत्याहु: (लौ० भा० ) । अत्रायं

विशेषो ज्ञेयः । भट्टमते शाब्दी भावना आर्थी भावना चेति भेदेन

द्विविधा भावना। तत्रान्त्यायां भावनायां भाव्यजनकत्वम् । भाव्यत्वं चेष्ट-

त्वम् इति विज्ञेयम् (त० प्र० ख० ४ पृ० ९४ ) । ५ पौराणिकास्तु

मानसज्ञानविशेषो भावना ( चिन्ता ० ) । सा च त्रिविधा भावना विप्र

विश्वमेतन्निबोधत । ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका ॥

( विष्णुपु० अं० ६ अ० ७ ) इत्याहुः । ६ बौद्धमते भावनाचतुष्टयम् ।

तच्च बौद्धशब्दे दृश्यम् । ७ मिषजस्तु निर्यासादिना चूर्णद्रव्यस्य मिश्री

करणे चूर्णद्रव्यस्य निर्यासादिना संस्कारविशेषः (औषधसंस्कारविशेष:)

भावना इत्याहुः । तत्प्रमाणमुक्तं भावप्रकाशे यथा द्रवेण यावन्मानेन

चूर्णे सर्वे तं भवेत् । भावनायाः प्रमाणं तु चूर्णे प्रोक्तं भिषग्वरैः ॥
 

( वाच० ) इति ।
 

 
<
भावनापञ्चकम्>
हास्यलोभभयक्रोधप्रत्याख्यानैर्निरन्तरम् । आलोच्य भाष

णेनापि भावयेत्सूनृतं व्रतम् ॥ ( सर्व० सं० पृ० ६६ आई० ) ।
 
भावित्वम् -

 
<भावित्वम्>
१ भविष्यस्वम् । २ भावविशिष्टत्वम् ।
 

 
<
भाव्यम्->
भाव्यं च द्विविधम् ईश्वरस्तत्त्वानि च ( सर्व० सं० पृ० ३५६
 

पातञ्ज० ) ।
 

 
<
भाषणम्- >
यत्किंचिज्ज्ञानानुकूलशब्दप्रयोगः । अत्रायं नियमः साधु भाषि-

दोषः
 
तव्यम् नापभ्रंशितवै न म्लेच्छितवै इति श्रुतिः । खरादिशब्दास्तु

रासभादौ म्लेच्छे रिवार्यैरपि संकेतिताः इति तत्प्रयोगे न

( श० प्र० श्लो० २२ टी० पृ० २६ ) । न ग्लेच्छितवै इत्यस्य म्ले.
 

च्छमात्रसंकेतितानां शब्दानां प्रयोगो न कार्य इत्यर्थः ।
 

 
<
भाषां - >
१ तत्तद्देशस्थजनवर्तननिर्वाहकं वाक्यम् । यथा संस्कृतभाषा /

( ४ ) मागधी (५) अर्धमागधी ( ६ ) प्राच्या (७) अवन्तिका

अथ भाषाविभागः (१) संस्कृता (२) सौरसेनी (३) महाराष्ट्री

(८) दाक्षिणात्या (९) शाकारी (१०) बाह्रीका (११) द्राविडी