2023-11-02 13:34:43 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
६२५
 
बोध्यम् (भा०प० ) ( त० सं० ) । अत्र भाष्यम् । भावनासंज्ञक-

स्त्वात्मगुणः दृष्टश्रुतानुभूतेष्वर्येषु स्मृतिप्रत्यभिज्ञानहेतुः ज्ञानमददुःखा-

दिविरोधी पटु अभ्यास आदर एतन्त्रिविधप्रत्ययजः । तत्र पटुप्रत्ययजो

यथा पटुप्रत्ययापेक्षादात्ममनसोः संयोगादाश्चर्येर्थे पटुः संस्कारो जायते ।

यथा दाक्षिणात्यस्योष्ट्रदर्शनात् । अभ्यासप्रत्ययजो यथा शिल्पविद्याक्रिया-

व्यायामादिष्वभ्यस्यमानेषु तस्मिन्नेवार्थे पूर्वपूर्वसंस्कारमपेक्षमाणादुत्तरो-

त्तरस्मात् प्रत्ययादात्ममनसोः संयोगात् संस्कारातिशयो जायते । आदर-

प्रत्ययजो यथा प्रयत्नेन मनश्चक्षुषि स्थापयित्वा अपूर्वमर्थ दिदृक्षमाणस्य

विद्युत्संपातदर्शनवदादर प्रत्ययः उत्पद्यते । तमपेक्षमाणादात्ममनसोः संयो-

गात्संस्कारातिशयो जायते । यथा देवहदे सौवर्णराजतपद्मदर्शनात्

( प्रशस्त ० २ पृ० ३४) इति । अत्रेदं बोध्यम् । उपेक्षानात्मकेन निश्चयेन

( अनुभवेन ) यः संस्कारो जायते स एवोद्बुद्धः स्मृतिजनकः । उपेक्षा-

त्मकनिश्चयजन्यस्तु न स्मृतिं जनयतीति । संस्कारोयमपि सविषयकः ।

संस्कारश्चान्त्यस्मृत्युत्पादनेन रोगेण कालविशेषेण वा नश्यति । केचित्तु

समानविषयस्मृत्या स नश्यति इत्याहुः ( त० व० पृ० २३१ )

( मु० स्मृतिनि० पृ० १९० ) । [ख] पूर्वानुभूतवस्तुनः स्मृतिहेतुः

संस्कार: ( त० प्र० ) ( त० कौ० ) । [ग] ज्ञानजः संस्कारः ।

२ कृत्यपरनामा प्रयत्नः ( त० प्र० ख० ४ पृ० ८१ )। यथा चैत्र-

स्तण्डुलं पचतीत्यादावाख्यातार्थः प्रयत्नो भावना । अत्रायं नियमः

भावनान्वयिन्येव संख्याया अन्वयः इति । तेन कृष्णेन स्थीयते इत्यादौ

भावनाया अनन्वयेन संख्याया अध्यनन्वयेपि न क्षतिः इत्यवधेयम्

(त० प्र० ख० ४ पृ० ८१ ) । ३ शाब्दिकास्तु धातुवाच्यो व्यापारो

भावना । यथा पचतीत्यादावधःसंतापनादिरूपव्यापार इत्याहुः ।

पचति पाकमुत्पादयति इत्यस्य पाकानुकूला भावना तादृश्युत्पादना इति

विवरणात् विव्रियमाणस्यापि तद्वाचकता इति भावः । अत्राधःसंतापनत्व-

फूत्कारत्वयु परिधारणत्वयत्नत्वादिभिर्बोधः सर्वसिद्धः । अत्रोक्तं भर्तृ-

हरिणा व्यापारो भावना सैवोत्पादना सैव च क्रिया । कृञोकर्मकतापत्तेर्न

हि यत्नोर्थ इष्यते ॥ (वै० सा० धात्व० पृ० ५०-५१) इति ।
 

 

७९ न्या० को०