न्यायकोशः /678
This page has not been fully proofread.
६२४
न्यायकोश: ।
कौ० का०
इत्यादौ धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्यानैश्वर्याणि भावाः ( सांख्य ०
४०-४५ ) इत्युक्ताः । ९ प्रकृतिजन्यबोधे प्रकारः
असाधारणधर्मः भावः । यथा घटस्य भावो घटत्वम् इत्यादौ इति
• सर्वशास्त्रकारा आहुः । अत्रायं विशेषो ज्ञेयः । प्रकृतिजन्यबोधे येन
• संबन्धेन तत्प्रतिपाद्यतावच्छेदकधर्मस्य प्रकारता तेन संबन्धेन तदितरा-
• वृत्तित्वे सति तद्वृत्तिर्धर्मः इति ( भवानन्दी० ) । अत्र तस्य भावत्व-
तलौ (पा० सू० ५/१/११९ ) इति सूत्रेण भाववाचकस्त्वप्रत्ययो
विहितः इति ज्ञेयम् । १० वासना संस्कारश्च इति मीमांसकाः प्रवदन्ति ।
१९ चेतनमचेतनम् इति द्विविधभेदयुतः अस्वतन्त्रतत्त्व विशेषो भावः
• इति मध्वाचार्याः प्राहुः । १२ भक्तिरपीति सर्वे वेदान्तिनो वदन्ति ।
१३ हृद्रतावस्थावेदको मानसविकारो भावः । स च निर्वेदादिर्व्य मिचारि-
• भावस्त्रयस्त्रिंशद्विधः रत्यादिः स्थायी भावश्च नवविध इति रसिका आहुः ।
तदुक्तम् विभावेनानुभावेन व्यक्तः संचारिणा तथा । रसतामेति रत्यादिः
स्थायी भावः सचेतसाम् ॥ ( सा० द० परि० ३ श्लो० १) इति ।
१४ नाट्योक्तनानापदार्थचिन्तकः पण्डितः
इति
नाटकज्ञा ब्रुवते ।
१५ संगीतसंगतपदार्थद्योतक हस्तचेष्टशविशेषो भावः इत्यभिनयकलाज्ञा
• नर्तकाश्च संगिरन्ते । १६ अभिप्रायोपीति काव्यज्ञा संजगदिरे ।
१७ अलंकारविशेषः इत्यालंकारिका आहुः । स्त्रीणां यौवनकाले सख
• निर्विकारात्मके चित्ते भाव: प्रथमविक्रिया इति । १८ जन्म इति पौरा-
भवाष्टाविंशत्यलंकारान्तर्गतोङ्गजः प्रथमालंकारोयम् । तथा चोक्तम्
णिकाः संवदन्ते । १९ लग्नादितस्तन्वादिर्द्वादशविधो भावः इति मौहूर्तिका
आहुः । २० ग्रहाणां द्वादशविधचेष्टा विशेषः इति ज्योतिर्विद आहुः ।
२१ दिव्यवीरपशुभेदेन त्रिविधो भावः इति तन्त्रज्ञा आहुः । २२ मध्व-
मतानुयायिवेदान्तिनस्तु प्रथमप्रतीतौ यः अस्ति इति प्रतीतिविषयः
100
भाव इत्याहुः ( प्र० च० परि० २ पृ० ४८) ।
भावना - १ ( गुणः ) [क] अनुभवजन्यः स्मृतिहेतुर्गुण विशेषः
( त० सं० ४ ) । स तु संस्कारप्रभेदः जीवमात्रवृत्तिः अतीन्द्रियश्चेति
-
.
+
".