This page has not been fully proofread.

न्यायकोशः ।
 
६२३
 
७।२।२७ ) इत्यादौ । ३ द्रव्यादिष्टुम् (मु० १ पृ० १९ ) ।
तल्लक्षणं च भावत्वमेव । तच्चात्र समवाय एकार्थसमवाय एतदन्यतरसंब-
न्धेन सत्तावत्त्वम् ( दि० १ पदार्थनि० पृ० २० ) । अत्र समवायस्य
खरूपेण स्वसंबद्धत्वाङ्गीकारेण समवायस्य समवायेनान्यत्रावृत्तावपि समवाये
नाव्याप्तिः इति ज्ञेयम् ( राम० १ पृ० २० ) । अथवा समवाय
सामानाधिकरण्य एतदन्यतरसंबन्धेन सत्तावत्त्वम् ( दि० १ अभावनि०
पृ० ४९ ) । ४ नव्यास्तु इतराविशेषणतया क्रियाबोधपरत्वम् । यथा
कृष्णेन स्थीयते इत्यादौ आत्मनेपदविधायके भावकर्मणोः ( पा० सू०
१ । ३ । १३) इति पाणिनिसूत्रे भावपदार्थ इत्याहु: ( ग० व्यु० आख्या-
तार्थनि०
To पृ० १२९ ) । ५ धातुवाच्या क्रिया । यथा भावप्रधानमा-
ख्यातम् ( यास्कनिरुक्तम् ) इत्यादौ । यास्केन साध्यरूपाया भावत्वमुक्तं
यथा तद्यत्रोभे भावप्रधाने भवतः पूर्वापरीभूतं भावमाख्यातेनाचष्टे व्रजति
पचतीत्युपक्रमप्रभृत्यपवर्गपर्यन्तम् इत्यादि । अत्रायं भावः । शाब्दिकमते
शाब्दबोधस्य धात्वर्थमुख्यविशेष्यकत्वस्वीकारेण भावस्य प्राधान्यं युज्यते।
नैयायिकमते तु प्रथमान्तार्थमुख्य विशेष्यकशाब्दबोधाङ्गीकारेण तन्मते
भावना भावशब्दार्थः । इयमेव कृतिः । तथा च भावप्रधानमाख्यात-
मित्यत्र भावः प्रधानं धात्वर्थे इति विग्रहं वर्णयन्ति । ६ सिद्धाव-
स्थापन्नो धात्वर्थो भाव इति वैयाकरणा आहुः । ७ उत्पत्त्यादि-
रूपषड्भावविकारयुक्तः पदार्थ इति यास्क आह । अत्रोच्यते । षड्भाव-
विकारा भवन्तीति वार्ष्यायणिः । जायते अस्ति विपरिणमते वर्धते
अपक्षीयते विनश्यति इति । तत्र ( १ ) जायते इति पूर्वभावस्यादि-
माचष्टे नापरभावमाचष्टे न प्रतिषेधति । (२) अस्ति इत्युत्पन्नस्य
सत्त्वस्यावधारणम् । (३) विपरिणमते इत्यप्रच्यवमानस्य तत्त्वाद्विकारम् ।
(४) वर्धते इति स्वाभ्युच्चयम् सांयौगिकानां वार्थानाम् वर्धते विजये-
नेति वा वर्धते शरीरेणेति वा । (५) अपक्षीयते इत्येतेनैव व्याख्यातः
प्रतिलोमम् । (६) विनश्यति इत्यपरभावस्यादिमाचष्टे न पूर्वभावमाचष्टे
न प्रतिषेधति (निरुक्त० ) इति । ८ धर्मादयोष्टौ भावाः इति सांख्या
आहुः । धर्मादयस्त भावैरधिवासितं लिङ्गम् ( सांख्यकारि० ४० )