2023-11-02 11:23:51 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
<भागासिद्धिः>
( स्वरूपासिद्धिः ) पक्षतावच्छेदकसामानाधिकरण्येन हेत्व-

भावः । यथा पृथिवी गन्धवती घटत्वादित्यादौ पृथिवीत्वसामानाधिकरण्येन

पटादौ घटत्वाद्यभावः (ग० बाघ ० ) । यथा वा पृथिव्यादयश्चत्वारः

परमाणवः अनित्याः गन्धवत्त्वादिति । अत्र गन्धवत्त्वं हेतुः पक्षीकृतेषु

सर्वेषु नास्ति । पृथिवीमात्रवृत्तित्वात् । अत एव भागे स्वरूपासिद्धत्वम्

( त० मा० हेत्वा० पृ० ४५ ) । तस्या उदाहरणान्तरं यथा घट-

शब्दावभिधेयौ मूर्तस्यात् ( प्र० च० पृ० २४) इति ।
 

 
<
भाग्यम्>
पूर्वाफल्गुनी ( पु० चि० पृ० ३५३ ) ।
 
-
 

 
<
भाण: - >
( रूपकम् ) दृश्यकाव्यविशेषः । यथा मुकुन्दानन्दभाणः पञ्चा-

युधप्रपञ्चभाणः इत्यादिः । तल्लक्षणं च भाणः स्याद्धूर्तचरितो नाना-

वस्थान्तरात्मकः । एकाङ्क एक एवात्र निपुणः पण्डितो विटः ॥ ( सा०

द० परि० ६ श्लो० ५१३) इत्यादि । अहोरात्रं विटानां च चरितं

भाण इष्यते ( मुकु० भा० टी० ) इति च ।
 
-
 

 
<
भानम्>
१ विषयतावदस्यार्थो नुसंधेयः ( दि० १।२ ) । यथा उपनीत-

भानमित्यादौ । २ ज्ञानम् । ३ प्रकाशः । ४ दीप्तिः ।
 

 
<
भारतम् - <
१ जम्बूद्वीपसंबन्धी वर्षविशेषः । अत्रोच्यते हिमाहं दक्षिणं वर्षे

भरणाय ददौ पिता । तस्माच्च भारतं वर्षम् (वाच ० ) इति । २ भरत-

नृपस्य वंश्यः इति पौराणिका आहुः । ३ अग्निविशेषः इति याजका आहुः ।

४ भरतमुनिकृतं नाट्यशास्त्रम् इति साहित्यशास्त्रज्ञा आहुः । ५ सत्यवती-

सुतव्यासप्रणीतः ग्रन्थविशेषः । एतस्य महाभारतम् इति संज्ञा । तथाहि ।

चत्वारश्चैकतो वेदा भारतं चैतदेकतः । पुरा किल सुरैः सर्वैः समेत्य

तुलया धृतम् ॥ चतुर्ग्यः सरहस्येभ्यो वेदेभ्योभ्यधिकं यदा । तदाप्रभृति

लोकेस्मिन्महाभारतमुच्यते ॥ महत्त्रे च गुरुत्वे च प्रियमाणं यतो-

धिकम् । महत्त्वाद्भारतत्वाच्च (भारवत्त्वाच्च ) महाभारतमुच्यते ॥ (भार०
 

आ० अ० १ ) इति । अयं च ग्रन्थो लक्षश्लोकात्मक इति वदन्ति ।

तत्र यत्संख्यको ग्रन्थ एतावता कालेनोपलब्धस्तत्संख्या प्रदर्श्यते