This page has not been fully proofread.

न्यायकोशः ।
 
भागासिद्धिः – ( स्वरूपासिद्धिः ) पक्षतावच्छेदकसामानाधिकरण्येन हेत्व-
भावः । यथा पृथिवी गन्धवती घटत्वादित्यादौ पृथिवीत्वसामानाधिकरण्येन
पटादौ घटत्वाद्यभावः (ग० बाघ ० ) । यथा वा पृथिव्यादयश्चत्वारः
परमाणवः अनित्याः गन्धवत्त्वादिति । अत्र गन्धवत्त्वं हेतुः पक्षीकृतेषु
सर्वेषु नास्ति । पृथिवीमात्रवृत्तित्वात् । अत एव भागे स्वरूपासिद्धत्वम्
( त० मा० हेत्वा० पृ० ४५ ) । तस्या उदाहरणान्तरं यथा घट-
शब्दावभिधेयौ मूर्तस्यात् ( प्र० च० पृ० २४) इति ।
 
भाग्यम् – पूर्वाफल्गुनी ( पु० चि० पृ० ३५३ ) ।
 
-
 
भाण: - ( रूपकम् ) दृश्यकाव्यविशेषः । यथा मुकुन्दानन्दभाणः पञ्चा-
युधप्रपञ्चभाणः इत्यादिः । तल्लक्षणं च भाणः स्याद्धूर्तचरितो नाना-
वस्थान्तरात्मकः । एकाङ्क एक एवात्र निपुणः पण्डितो विटः ॥ ( सा०
द० परि० ६ श्लो० ५१३) इत्यादि । अहोरात्रं विटानां च चरितं
भाण इष्यते ( मुकु० भा० टी० ) इति च ।
 
-
 
भानम् – १ विषयतावदस्यार्थो नुसंधेयः ( दि० १।२ ) । यथा उपनीत-
भानमित्यादौ । २ ज्ञानम् । ३ प्रकाशः । ४ दीप्तिः ।
 
भारतम् - १ जम्बूद्वीपसंबन्धी वर्षविशेषः । अत्रोच्यते हिमाहं दक्षिणं वर्षे
भरणाय ददौ पिता । तस्माच्च भारतं वर्षम् (वाच ० ) इति । २ भरत-
नृपस्य वंश्यः इति पौराणिका आहुः । ३ अग्निविशेषः इति याजका आहुः ।
४ भरतमुनिकृतं नाट्यशास्त्रम् इति साहित्यशास्त्रज्ञा आहुः । ५ सत्यवती-
सुतव्यासप्रणीतः ग्रन्थविशेषः । एतस्य महाभारतम् इति संज्ञा । तथाहि ।
चत्वारश्चैकतो वेदा भारतं चैतदेकतः । पुरा किल सुरैः सर्वैः समेत्य
तुलया धृतम् ॥ चतुर्ग्यः सरहस्येभ्यो वेदेभ्योभ्यधिकं यदा । तदाप्रभृति
लोकेस्मिन्महाभारतमुच्यते ॥ महत्त्रे च गुरुत्वे च प्रियमाणं यतो-
धिकम् । महत्त्वाद्भारतत्वाच्च (भारवत्त्वाच्च ) महाभारतमुच्यते ॥ (भार०
 
आ० अ० १ ) इति । अयं च ग्रन्थो लक्षश्लोकात्मक इति वदन्ति ।
तत्र यत्संख्यको ग्रन्थ एतावता कालेनोपलब्धस्तत्संख्या प्रदर्श्यते