2023-11-02 11:22:15 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

६२०
 
न्यायकोशः ।
 
<बोधितोर्थः >
( औपचारिकः ) । ३ भक्तमन्नम् तत्संबन्धि भक्तिम्

इति काव्यज्ञा आहुः ।
 

 
<
भागः>
१ पक्षतावच्छेदकाश्रयो यः कश्चन पक्षैकदेशः । यथा भागासिद्धि-

रित्यादौ। २ स्वत्वाश्रयः (धनम् ) । यो मां प्रति स्यात् इत्यादौ । अत्र

भागः ( स्वत्वाश्रयः ) प्रत्याद्यर्थः । तदन्वयी संबन्धो द्वितीयार्थः । इत्थं

च अस्मत्संबन्धी यो भागः स्यात् इति बोध: ( ग० व्यु० का० २

ख० २ पृ० ७६ ) । ३ एकदेशः । ४ त्रिंशांशकस्तथा राशेर्भाग

इत्यभिधीयते इति ज्योतिषज्ञा आहुः । ५ पूर्वाफाल्गुनी नक्षत्रम् इति
 

मौहूर्तिका आहुः । ६ एकादशसंख्या इति गणका आहुः ।
 
भागवतम् –

 
<भागवतम्>
१ मोक्षप्रदश्रीभगवज्ज्ञानभक्तिवैराग्यप्रतिपादको महापुराण-

विशेषः । यथा यैर्न श्रुतं भागवत पुराणम् ( भाग० ) पिबत भागवतं

रसमालयम् ( भाग० १ । १ । ३ ) इत्यादौ । तथोक्तं श्रीमद्भागवते धर्मः

प्रोज्झितकैतवोत्र परमो निर्मत्सराणां सतां वेद्यं वास्तवमत्र वस्तु शिवदं

तापत्रयोन्मूलनम् । श्रीमद्भागवते महामुनिकृते किंवा परीश्वरः

हृद्यवरुध्यतेत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥ ( भाग० १/१/२) इति ।

अत्रोच्यते । मरीचे शृणु वक्ष्यामि वेदव्यासेन यत्कृतम् । श्रीमद्भागवतं

नाम पुराणं ब्रह्मसंमितम् ॥ तदष्टादशसाहस्रं कीर्तितं पापनाशनम् ।

सुरपादपरूपोयं स्कन्धैर्द्वादशभिर्युतः ॥ भगवानेव विप्रेन्द्र विश्वरूपी
 

समीरितः ( नारदीयपु० ४ अ० ९६ ) इति ।
 
तेन
 
श्रीमद्भागवतं
 
212
 

बोपदेवकृतम् इति केषांचित्तामसानां प्रलापो निरस्तः । बोपदेवकृतं

तु देवीभागवतमेव इति तु वयं तत्त्वत्तो जानीमः । २ भगवद्भक्तः पुरुषः ।

यथा यत्र ह वा वीरव्रत औत्तानपादिः ध्रुवः परमभागवतः ( भाग ०

स्क० ५ अ० १७ गद्यम् २ ) इत्यादौ । तत्स्वरूपमुक्तं यथा सर्व-

भूतेषु यः पश्येद्भगवद्भावमात्मनः । भूतानि भगवत्यात्मन्नेष भागवतोत्तमः ॥

( भाग० स्कन्ध० ११ अ० २ श्लो० ४५ ) इति । येन सर्वात्मना

विष्णुभक्तया भावो निवेशितः । वैष्णवेषु कृतात्मत्वान्महाभागवतो हि
 

॥ सः ॥ ( गारुडे० ) इति ।
 
S