2023-11-02 11:13:04 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
भावप्रतियोगित्वम् । यथा अनागतः कालः इत्यादौ कालस्य भविष्यत्त्वम्

(वाक्य० १५०६) (नील० १ काल० पृ० १०) । [ ख ] आद्यकृति-

प्रागभावः (न्या० म० ४ पृ० २०) । [ग] वर्तमानप्रागभावः । यथा

पक्ष्यतीत्यादौ ऌडर्थः । अत्र ऌडर्थस्य तादृशप्रागभावस्य तदर्थकृतौ प्रति-

योगितासंबन्धेनान्वयः । प्रागभावानङ्गीकारे तु वर्तमानध्वंस एव ऌडर्थः

( ग० व्यु० ल० पृ० १३६) । [घ] वर्तमानप्रागभावप्रतियोगित्वम् ।

यथा घटो भविष्यतीत्यादौ धात्वर्थोत्पत्तेर्भविष्यत्त्वम् । पक्ष्यतीत्यादौ

चाख्यातार्थकृतेर्भविष्यत्त्वम् ( त० प्र० ख० ४ पृ० ८२) (ल०

म० लकार० ) । [ङ ] विद्यमानप्रागभावप्रतियोग्युत्पत्तिकत्वम् (तर्का ०

ख० ४ ) ( दीधि० २) । यथा नयतीत्यादौ ऌडर्थः ( त० प्र०

ख० ४ पृ० ८३ ) ( ग० व्यु० ल० पृ० १३५ ) । यथा वा

आगमिष्यतीत्यादौ ऌटोर्थः । अत्र विद्यमानप्रागभावप्रतियोग्युत्पत्तिका-

गमनानुकूलकृतिमान् इत्यर्थो बोध्यते ( तर्का ० ख० ४ पृ० ११ ) ।

[च] वर्तमानकालोत्तरकालोत्पत्तिकत्वम् ( त० प्र० २ ) ( दीधि ० २ ) ।

यथा ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः । अव्याक्षेपो भविष्यन्त्याः

कार्य लक्षणम् ॥ ( रघु० स० १० श्लो० ६ ) इत्यादौ ।
 

 
110
 

 

[ छ ] वर्तमानध्वंसः । यथा पक्ष्यतीत्यादौ ऌडर्थः । अयं च प्रागभावा-

नङ्गीकारपक्षेपि संगच्छते इति विज्ञेयम् ( ग० व्यु० ल० पृ० १३६ ) ।

२ पौराणिकास्तु महापुराणान्तर्गतपुराणविशेषः । यथा भविष्यपुराण-

मित्यादी इत्याहुः (नारदीय० पु० पा० ४ अ० १००) ।
 
-
 

 
<
भाक्तः>
१ लाक्षणिकः शब्दः । गौण इत्यर्थः । यथा सिंहो माणवक इत्यादौ

सिंहशब्दः । अत्र सिंहपदस्य सिंहसदृशे लक्षणा । सादृश्यं च शौर्यादिना

इति नैयायिका आहुः । तथा च सिंहवृत्तिगुणसदृशगुणवान्माणवकः

इति शाब्दबोध: । शाब्दिकास्तु सिंहपदस्य सिंह एवार्थः । माणवके

च सिंहवृत्तिशौर्यक्रौर्यादयो गुणा आरोप्यन्ते इत्याहुः । तथा चैतन्मते

सिंहवृत्त्यारोपितगुणवान्माणवकः इति बोधः । २ गौण्या वृत्त्या