2023-11-02 11:12:22 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

६१८
 
न्यायकोशः ।
 
निर्वाह: (ग० व्यु० का० ५ पृ० १०६) । अत्र शाब्दिका वदन्ति ।

मीत्रार्थानां भयहेतुः इति सूत्रस्थस्य भयहेतुः इत्यस्य भयपदार्थैकदेशा-

निष्टहेतुः इत्यर्थः । यज्जन्यं भयमेव न प्रसिद्धम् तत्र पञ्चमी न भवत्येव ।

तत्र पञ्चम्याः इष्टत्वे तु हेतुत्वारोपेण सा पञ्चमी ( ल० म० सुब०

कार० ५ पृ० १०९ ) इति ।[ घ ] भावित्वेन स्वानिष्टचिन्तनम् । यथा

व्याघ्राद्विभेति त्रस्यतीत्यादौ धात्वर्थः । हेतुत्वं जन्यत्वं वा पञ्चम्यर्थः ।

तच्च धात्वर्यैकदेशे अनिष्टे चिन्तन एव वान्वितम् । तथा च व्याघ्र हेतुक

स्वानिष्टस्य भाविलेन चिन्तनवान् इति व्याघ्रहेतुकत्वेन भाव्यनिष्ट-

धर्मिक चिन्तनवान् इति वा तत्र बोध: ( श० प्र० श्लो० ६८ टी०

पृ० ८०) । [ङ ] शाब्दिकास्तु अनिष्टज्ञानम् । यथा चोराद्विभेतीत्यादौ

धात्वर्थो भयम् इत्याहुः । अत्र चोरापादानकानिष्टज्ञानम् इति बोधः

( ल० म० सुब० का० ५ पृ० १०९) । २ भयस्थायिभावको रस-

विशेष: इति रसशास्त्रज्ञा आहुः । अत्रोच्यते रौद्रशत्त्या तु जनितं
 

चित्तवैक्लव्यदं भयम् ( सा० द०
 
परि० ३ श्लो०
 
१७८ ) इति ।
 

बैक्कव्यमस्थिरत्वम् । ३ निर्ऋतिपुत्र विशेषः इति पौराणिका आहुः (भा०
 

आ० अ० ६६ ) ।
 
भवनम् –

 
<भवनम्>
१ उत्पत्तिः कालस्य वस्तुना संबन्धविशेषो वा यथा घटो

भवतीत्यादौ भूधात्वर्थो भवनम् । वैयाकरणास्तु उत्पश्यनुकूलो व्यापारः ।

यथा घटो भवतीत्यादौ भूधातोरर्थः इत्याहुः (वै० सा० द० ) ( वाच० ) ।
 

२ मन्दिरम् इति काव्यज्ञा आहुः ।
 
भविष्यत् –

 
<भविष्यत्>
१ ( काल: ) यत्प्रागभावेन यः कालोवच्छिद्यते स तस्य

भविष्यत्कालः (वै० उ० २१२१८ ) । यथा घट उत्पत्स्यत इत्यादी

घटप्रागभावेन यः कालोवच्छिन्नः (विशिष्ट: ) स घटस्य भविष्यत्कालः ।

तर्ककौमुद्यां तु तव्यक्तिप्रागभावविशिष्टः कालस्तव्यक्तेरनागतकालः इत्यु-

क्तम् । अन्यत्र चोक्तम् वर्तमानप्रागभावप्रतियोग्यवच्छिन्नकालः इति ।

अत्रायं विशेषः कालस्य संबन्धमात्रत्वमते अवच्छिन्न इति न देयम् ( १०

मा० कालनि० पृ० ९२ ) । भविष्यत्वं च [क] वर्तमानकालवृत्तिप्राग-