न्यायकोशः /671
This page has been fully proofread once and needs a second look.
-
भजनं दशविधम् वाचा सत्यं हितं प्रियं स्वाध्यायः कायेन दानं
परित्राणं परिरक्षणं मनसा दया स्पृहा श्रद्धा चेति । अत्रैकैकं निष्पाद्य
नारायणे समर्पणं भजनम् ( सर्व० सं० पृ० १३८ पूर्णप्र० ) ।
<भट्टः
१ [ क ] वेदाभिज्ञः पण्डितः । [ ख ] चतुःशास्त्रज्ञः इति
मालतीमाधवटीकाकार आह । [ग] मेधावी कृतविद्यः । यथा तुता-
ताख्यो मीमांसक विशेषः । कुमारिलाख्यो मीमांसकः इत्यपि मीमांसका-
नुयायिन आहुः । तुतातकुमारिलाभ्यां भट्ट इत्युपनाम विद्ययार्जितम्
इति विज्ञेयम् । भट्टमतं तु मीमांसावार्तिके मीमांसान्यायप्रकाशे
भाट्टदीपिकादौ च द्रष्टव्यम् । कुमारिलस्याख्यायिका नारायणपण्डिता-
चार्यैर्मणिमञ्जय ( ५-६ सर्गे) प्रतिपादिता तत्र दृश्या । २ क्षत्रियाद्वि-
प्रकन्यायां भट्टो जातोनुवाचकः ( ब्रह्मवै० पु०) इति पौराणिका आहुः ।
<भट्टाचार्य
तुतातभट्ट उदयनाचार्यश्च । अत्र विग्रहः भट्टश्च आचार्यश्च
भट्टाचार्यः
ः
इति (बाच० ) । तत्रोदयनाचार्यस्तु न्यायतर्कग्रन्थेषु आचार्य इति
व्यवद्दियते । स च किरणावली
कुसुमाञ्जलिप्रभृतिग्रन्थद्वारेण परमात्मा-
स्तित्वं प्रदर्श्य नास्तिकानजयत् इति सुप्रसिद्धम् ।
·
।
<भद्रा
(सप्तमी) शुक्लपक्षे तु सप्तम्यां नक्षत्रं सवितुर्भवेत् । आद्ये पादे तु
देवेन्द्र तदा सा भद्रतां ब्रजेत् ॥ (पु० चि० पृ० १०५ ) ।
भयम् –
<भयम्>
१ ( दोषः ) [ क ] अनिष्टहेतूपनिपाते तत्परित्यागानर्हताज्ञानम्
( गौ० वृ० ४।१।३)। [ख] अनिष्टविषयसाधनोपनिपाते तज्जिहासो-
होनाशक्यता भयम् (न्या० बा० ) । [ग] परतोनिष्टसंभावना ।
यथा व्याघ्राद्विभेतीत्यादौ बिभेत्यर्थः । अत्र भीत्रार्थानां भयहेतुः ( पा०
सू० १।४।२५) इत्यनेनापादानसंज्ञा । तदर्थश्च भयार्थकधातुयोगे
भयहेतुत्वेन संभावितमपादानम् इति । तथा च व्याघ्राद्विमेतीत्यादौ
प्रयोज्यत्व प्रकारकत्वं पञ्चम्यर्थः । तस्यानिष्टसंभावनायामन्वयः । संभा-
वितम् इत्युक्त्या शत्रुभ्रमेण मित्रादपि बिभेति इति वाक्यस्यापि प्रामाण्य-
७८ न्या० को०