न्यायकोशः /67
This page has been fully proofread once and needs a second look.
>
तद्धातूपस्थाप्यतादृशक्रियायामधिकरणकारकम् ( श० प्र० ८९ ) ।
अधिकरणत्वं च [ क ] अधिकरणमिति प्रतीतिसाक्षिकः स्वरूपसंबन्ध:
विशेषः । यथा घटवद्भूतलमित्यादौ भूतले घटाधिकरणता ।
[ ख ] विषयताविशेष इति केचिद्वदन्ति ।
[ ग ] यथार्थविशिष्टधीविशेष्यत्वमित्यपरो वक्ति ।
[घ ] कर्तृद्वारा कर्मद्वारा वा क्रियाश्रयत्वमिति शाब्दि[^१]का वदन्ति ।
no
[^१] एतन्मतेधिकरणं च [क] कर्त्रादिव्यवहितक्रियाधारः । [ ख ] अधिकरण-
त्वशक्तिमत् । सा शक्तिः कर्तृकर्मद्वारा यः क्रियाश्रयस्तन्निष्ठा । अधिकरणं त्रिधा।
औपश्लेषिकम् वैषयिकम् अभिव्यापकं चेति । तदुक्तं हरिणा उपश्लेषस्य चा
भेदस्तिलाकाशकटादिषु । उपकारास्तु भियन्ते संयोगिसमवायिनाम् ॥ अविनाशो
गुरुत्वस्य प्रतिबन्धे स्वतन्त्रता । दिग्विशेषादवच्छेद इत्याद्या भेदहेतवः ॥ इति ।
औपश्लेषिकवैषयिकाभिव्यापकेषु त्रिष्वपि उपश्लेषोस्त्येव । उपकारः संबन्धः ।
तद्भेदात्तु त्रित्वेन व्यवहारः । कटे आस्त इत्यादौ संयोगिन्याधारे कतिपयाव-
यवव्याध्यैव संबन्धः। तिलेष्वित्यादौ समवायिनि समस्तावयवव्याया सः ।
खे शकुनय इत्यत्रा काशस्य तात्त्विकावयवाभावेन कल्पितदेशत्वात् कल्पित
देशापेक्षया चात्राप्युक्तान्यतर उपश्लेषः । केचित्तु औपश्लेषिकमित्यस्य उप
समीपे श्लेष: संबन्धस्तत्कृतम् इत्यर्थः । एवं च यत्किंचिदवयवावच्छेदेना-
धारस्याधेयेन व्याप्तिरप्युपश्लेषः । यथा कटे आस्ते गुरौ वसति इति । एवमेव
गर्नैकदेशे तरन्तीषु गोषु कूपैकदेशस्थिते गर्गकुले गङ्गायां गावः कूपे गर्ग कुलम्
इत्यादौ बोध्यम् । वैषयिकं तु अप्राप्तिपूर्वकप्राप्तिरूपसंयोगसमवायैतद्भिन्न संव
न्धेन यदधिकरणं तत् । यथा से शकुनयः मोक्षे इच्छास्ति इत्यादि । अभि-
व्यापकं तु यत्र सर्वावयवावच्छेदेन व्याप्तिस्तत् । यथा तिलेषु तैलं दध्नि सर्पि-
रिति । अभिव्यापकमेव मुख्यमधिकरणमित्याहुः ( ल० म० ११८ ) ।
<अधिकरणम्
अवान्तरप्रकरणम् ( मीमांसाधिकरणकौमुदी पृ० १ ) ।
विषय संशय पूर्वपक्ष उत्तर सिद्धान्त एतत्पञ्चाङ्गबोधकवाक्यसमुदायरू-
पन्यायत्वमधिकरणत्वमिति मीमांसका वेदान्तिनश्चाहुः ।
<अधिकरणसिद्धान्तः
( सिद्धान्तः ) [ क ] यत्सिद्धावन्यप्रकरणसिद्धिः
सोधिकरणसिद्धान्तः ( गौ० १ । १ । ३० ) । यस्यार्थस्य सिद्धावन्येर्था-
१ एतन्मतेधिकरणं च [क] कर्त्रादिव्यवहितक्रियाधारः । [ ख ] अधिकरण-

3