2023-11-02 10:50:08 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
६१५
 
<भक्तिः>
१ [क] गौणीशब्दवदस्यार्थोनुसंधेयः । यथा ततो भक्त्या दश

दिशः सिद्धाः (प्रशस्त० दिङ्गिरू० पृ० ८ ) इत्यादौ । [ ख ] भक्ति-

र्नाम लक्षणावृत्तिः (जै० सू० वृ० अ० ३ पा० २ सू० ४३ ) ।

इयं भक्तिस्तु गौणत्वम् उपचारश्च इति व्यवयिते इति वदन्ति

[ग] प्रकर्षभावाभावः । यथा बिल्वामलकादावणुत्वव्यवहारः समि-

दिक्षुदण्डादिषु च हस्वत्वव्यवहारो भाक्तः इत्यादौ आमलके यः प्रकर्ष-

भावस्तस्याभावः कुवले । बिल्वे यः प्रकर्षभावस्तस्याभाव आमलके ।

सच गौणमुख्योभयभागित्वाद्भक्तिपदवाच्यः (वै० उ० ७७११८ ) ।

२ [ क ] आराध्यत्वप्रकारकं ज्ञानम् ( कि० व० पृ० ४ ) ( म०

प्र० १ पृ० १६ ) ( श० प्र० श्लो० ७२ टी० पृ० ९५ ) ( त०

प्र० १ पृ० ६ ) ( सि० च० ) । यथा भक्त्या हरिमुपास्ते इत्यादौ ।

यथा वा भक्तिर्ज्ञानाय कल्पते इत्यादौ । [ख] निरतिशयानन्दप्रियानन्य-

प्रयोजन स कलेतरवैतृष्ण्यवज्ज्ञानविशेषो भक्तिः इति रामानुजीया आहुः

( सर्व० पृ० १२३ रामा० ) । परे तु सा परानुरक्तिरीश्वरे ( शाण्डि ०

सू० १।१ ) । यथा रस९ ह्येवायं लब्ध्वानन्दी भवति ( तैत्ति० उ०

(२७७१ ) इत्यादौ रसो भक्तिः । यथा वा ब्रह्मसंस्थोमृतत्वमेति

(छान्दो० २।२३।१ ) इत्यादौ संस्थापदवाच्या भक्तिः इत्याहुः

( शाण्डि० सू० टी० २/२ ) । अत्र रसशब्दवाच्यं संस्थाशब्दवाच्यं

च भगवदपरोक्षज्ञानमेव इति वयं जानीमः । भक्तेर्लक्षणं च आराध्य-

विषयकरागित्वम् भक्ते रागरूपत्वे प्रयोगः भक्तिर्भजनीयगोचररागरूपा

तदनुवर्तनादिहेतुहितसाधनताधीभिन्नात्मविशेषगुणत्वात् यन्नैवम् तन्नैवम्

यथा द्वेषः इति (शाण्डि० टी० ) । अत्र वल्लभीया वदन्ति । इयं

भक्तिर्द्विविधा साधनीभूता फलीभूता च । तत्र साधनभूता भक्ति-

र्ज्ञानाय कल्पते वासुदेवे भगवति भक्तियोगः प्रयोजितः । जनयत्याञ्जु

वैराग्यं ज्ञानं च यदहैतुकम् ॥ इत्यादौ । फलभूता तु स वै पुंसां परो

धर्मो यतो भक्तिरधोक्षजे । अहेतुक्यव्यवहिता ययात्मा संप्रसीदति ॥