2023-11-02 10:49:39 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
ब्राह्मणलक्षणं च विशुद्धमातापितृजन्यत्वम् । अत्र विशुद्धत्वं च षटुर्मा-

धिकारवत्त्वम् ( त० कौ० पृ० २१ ) । तस्य स्वरूपं यथा जात्या

कुलेन वृत्तेन स्वाध्यायेन श्रुतेन च । एभिर्युक्तो हि यस्तिष्ठेन्नित्यं स द्विज

उच्यते ॥ ( वह्निपुराणे ) ( वाच० ) इति । वसिष्ठेनोक्तं ब्राह्मणस्वरूपं

यथा योगस्तपो दमो दानं सत्यं शौचं दया श्रुतम् । विद्या विज्ञान-

मास्तिक्यमेतद्ब्राह्मणलक्षणम् ॥ इति । ब्राह्मणगुणप्रयुक्तं फलमाह सर्वत्र

दान्ताः श्रुतपूर्णकर्णा जितेन्द्रियाः प्राणिवघे निवृत्ताः । प्रतिग्रहे संकु-

चिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः ॥ इति । तस्य माहात्म्यादि

यथा सर्वेषामेव वर्णानां ब्राह्मणः परमो गुरुः । तस्मै दानानि दे

भक्तिश्रद्धासमन्वितैः ॥ ( वाच० ) इति । किंच अविद्वांश्चैव विद्वांश्च

ब्राह्मणो दैवतं महत् । प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ॥

( मनु० ९ । ३१७) इति । अत्र जन्मना ब्राह्मणो गुरुः इति स्मृतिज्ञया

मनुनाप्युक्तं यथा वैशेष्यात्प्रकृतिश्रैष्ठ्यान्नियमस्य च धारणात् । संस्कारस्य

विशेषाच्च वर्णानां ब्राह्मणः प्रभुः ॥ ( मनु० अ० १० लो० ३) इति ।

२ मन्नेतरवेदभागो ब्राह्मणम् ( ऋग्वे० भाष्य० उपो० पृ० २०) ।
 

अत्रापस्तम्बः सूत्रयामास
 
मन्त्रब्राह्मणयोर्वेदनामधेयम् इति ।
 
जैमिनिरपि
 
द: (जैमि० अ० २ ० १

सू० ३२-३३ ) इति । तल्लक्षणं तु नैरुत्त्यं यस्य मन्त्रस्य विनियोगः

प्रयोजनम् । प्रतिष्ठानं विधिश्चैव ब्राह्मणं तदिहोच्यते ॥ ( याज्ञव० ) इति

( वाच० ) । अत्र वात्स्यायनभाष्यम् । त्रिधा खलु ब्राह्मणवाक्यानि

विनियुक्तानि विधिवचनानि अर्थवादवचनानि अनुवादवचनानि (वात्स्या
 

२।१।६१ ) इति ।
 
(
 
ब्राह्मम् –

 
<ब्राह्मम्>
( नक्षत्रम् ) रोहिणी ( पुरु० चि० पृ० ३५४ ) ।

 
<
ब्रुवणम्>
ज्ञानोद्देश्यक प्रवृत्त्यधीनशब्दः । यथा शिष्यं धर्म ब्रूते इत्यादौ

ब्रूञोर्थः । अत्र धात्वर्थघटके ज्ञाने शिष्यवृत्तित्वस्य शब्दे च धर्मविषयक

त्वस्यान्वयः । तथा च शिष्यवृत्तिज्ञानोद्देश्यक प्रवृत्त्यधीनधर्मविषयकशब्द-

प्रयोगकर्ता इति बोधः (ग० व्यु० का० २ पृ० ४६ ) /