2023-11-02 10:43:54 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
६१३
 

 
परमात्मा शेषी । जीवास्तु परमात्मशरीररूपत्वाच्छेषाः इति । माया-

वादिमते तु सगुणनिर्गुणभेदेन द्विविधं ब्रह्म । तत्र मायाश्रितः जाग्र-

दाद्यवस्थात्रयसाक्षी च ईश्वर: सगुणः । मायातीतम् अवस्थात्रयातीतं

च निर्गुणम् इति विशेषो ज्ञेयः । ब्रह्मणः तटस्थलक्षणं च जगज्जन्म-

स्थितिप्रलयानां प्रत्येकमुपादानप्रत्यक्षचिकीर्षाकृतिमत्त्वम् इति । तेन नव-

लक्षणवत्वम् । तदुक्तं ब्रह्मसूत्रकारैः जन्माद्यस्य यतः (ब्र० सू० ११ १ २ )

इति । अत्र श्रुतिः प्रमाणम् यतो वा इमानि भूतानि जायन्ते येन

जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्म ( तैत्ति ०

उप० २११।१ ) इति । ब्रह्मणः स्वरूपलक्षणं च सच्चिदानन्दात्मकत्वम्

इति । अत्र श्रुतिः सत्यं ज्ञानमनन्तं ब्रह्म ( तैत्ति ० उ० २।१।१ ) इति ।

निर्गुणं निष्कलं शान्तं निरवद्यं निरञ्जनम् ( श्वे० ६।१९) इत्यादिश्च ।

 
<
ब्रह्मज्ञानम्>
ब्रह्मविषयकतत्त्वज्ञानम् । तच्चारोपज्ञानं न्यायमतसिद्धम् इति

केचित्प्रलपन्ति ( वाच० ) । वयं तु तच्च न्यायमते यथार्थज्ञानमेव इति

बदामः । मायावादिनस्तु तस्वमसि ब्रह्माहमस्मि इत्यादिमहावाक्यार्थ-

ज्ञानानन्तरं मनननिदिध्यासनादिना सर्वात्मकोहम् ब्रह्मैवाहमस्मि इति

प्रमारूपं प्रत्यक्षम् इति मन्यन्ते । श्रीपूर्णप्रज्ञाचार्यानुयायिनः श्रवणमनना-

दिना पञ्च भेदज्ञानम् विष्णुसर्वोत्तमत्वादिज्ञानानन्तरं भगवत्प्रसादफलं

(अहेतुकम्) भगवदपरोक्षज्ञानम् इति प्राहुः । पञ्च भेदास्तु जीवेशयो-

र्भेदः जडजीवयोर्भेदः जडेश्वरयोर्भेदः जीवयोर्भेदः जडयोर्भेदश्च (परमा

श्रुतिः ) ( सर्व० पृ० १४२ पूर्ण० ) इति ।
 
ब्रह्मतत्त्वम् –

 
<ब्रह्मतत्त्वम्>
सजातीय विजातीयस्वगत नानात्व शून्यम् (सर्व० सं० पृ० १२८

पूर्णप्र० ) ।
 

 
<
ब्राह्मः->
(विवाहः ) ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता ( याज्ञ

वल्क्य० अ० ११५८)।
 
-
 

 
<
ब्राह्मणः ->
१ अदृष्टविशेष प्रयोज्यब्राह्मणत्वधर्मवान् । यथा जात्या ब्राह्मण

इत्यादौ । अत्र ब्राह्मणपदार्थघटकतादृशधर्मे तृतीयान्तार्थस्य जात्यभेदस्या-

न्वयः । अत्रार्थे व्युत्पत्तिः ब्रह्म वेदम् परब्रह्म वा वेत्त्यधीते वा इति ।