This page has not been fully proofread.

न्यायकोशः ।
 
इति ने प्रतन्यते ( सर्व० पृ० ४३ - ४५ बौद्ध० ) । यद्यपि भगवान्
बुद्ध एक एव बोधयिता तथापि बोद्धव्यानां बुद्धिभेदाच्चतुर्विष्यम् । यथा
गतोस्तमर्कः इत्युक्ते जारचौरानूचानादयः स्खेष्टानुसारेणाभिसरणपर-
स्वहरणसदाचरणादिसमयं बुद्ध्यन्ते इति ( सर्व० पृ० १९ बौद्ध० ) ।
अत्र बौद्धानामष्टादश भेदाः प्रसिद्धाः । उपभेदास्तु बहवो विस्तरभया-
नोदाहृता: ( सि० च० ११ १२ ) । विवेकविलासे बौद्धमतमित्थमभ्य-
धायि । बौद्धानां सुगतो देवो विश्वं च क्षणभङ्गुरम् । आर्यसत्वाख्यया
तत्त्वचतुष्टयमिदं क्रमात् ॥ दुःखमायतनं चैव ततः समुदयो मतः
मार्गश्चेत्यस्य च व्याख्या क्रमेण श्रूयतामतः ॥ दुःखं संसारिणः स्कन्धास्ते
च पञ्च प्रकीर्तिताः । विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ॥
पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् । धर्मायतनमेतानि द्वादशा-
यतनानि तु ॥ रागादीनां गणोयं स्यात्समुदेति नृणां हृदि । आत्मा-
त्मीयस्वभावाख्यः स स्यात्समुदयः पुनः ॥ क्षणिकाः सर्वसंस्कारा इति
या वासना स्थिरा । स मार्ग इति विज्ञेयः स च मोक्षोभिधीयते ॥
प्रत्यक्षमनुमानं च प्रमाणद्वितयं तथा । चतुःप्रस्थानिका बौद्धाः ख्याता
वैभाषिकादयः ॥ अर्थो ज्ञानान्वितो वैभाषिकेण बहु मन्यते । सौत्रा-
न्तिकेन प्रत्यक्षग्राह्योर्थो न बहिर्मतः ॥ आकारसहिता बुद्धिर्योगाचारस्य
संमता। केवलां संविदं स्वस्थां मन्यन्ते मध्यमाः पुनः ॥ रागादिज्ञान-
संतानवासनोच्छेदसंभवा । चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्तिता ॥
कृत्तिः कमण्डलुमण्ड्यं चीरं पूर्वाहभोजनम् । संघो रक्ताम्बरत्वं च
शिश्रिये बौद्धमिक्षुभिः ॥ इति ( सर्व० सं० पृ० ४६
४७ बौद्ध० ) ।
बौद्धशास्त्रम् – प्रथमं बृहस्पतिप्रणीतम् ततो बुद्धावतारे प्रपञ्चितं च शा-
खम् । तच्च शास्त्रं बौद्धः इति शब्दस्यार्थे तत्तन्मतोपन्यासवेलायां संक्षेपतः
प्रादर्शि । बौद्धशब्दस्य व्युत्पत्तिस्तु बुद्धेन प्रोक्तं बौद्धम् इति । अत्र कथा
श्रूयते मत्स्यपुराणे । आयुषो राज्ञो नहुषवृद्धशर्मरजिदम्भविपाप्मसंज्ञकाः
पञ्च पुत्रा आसन् । तत्र रजेः पुत्रशतं जज्ञे । तै रजिपुत्रैर्बलाच्छिन्न-
। यज्ञभागवैभवः शक्रो दीनः सन् स्वेष्टप्राप्तये वाचस्पतिं प्रार्थयामास ।