This page has not been fully proofread.

न्यायकोशः ।
 
च भाषया देशः यथा वा संभ्रमेण स्नेहः तथा ज्ञानांकारेण ज्ञेयमनुमेयम्
इति । तथा च बाह्यार्थ सद्भावे प्रयोगः ये यस्मिन्सत्यपि कादाचिरकाः
- ते सर्वे तदतिरिक्तसापेक्षाः । यथा अविवक्षत्यजिगमिषति मयि वचन-
गमनप्रतिभासा विवक्षुजिगमिषुपुरुषान्तरसंतानसापेक्षाः । तथा च विवा-
दाध्यासिताः प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञाने कदाचिदेव नीलाधु-
लेखनाः इति । तत्रालयविज्ञानं नामाहमास्पदं विज्ञानम् । अयमेवात्मा ।
• नीलाघल्लेखि च प्रवृत्तिविज्ञानम् । ततश्च कादाचित्कत्व निर्वाहाय शब्द-
• स्पर्शरूप रसगन्धविषयाः सुखादिविषयाः षडपि प्रत्ययाश्चतुरः प्रत्यया-
न्प्रतीत्योत्पद्यन्ते । ते चत्वारः प्रत्ययाः प्रसिद्धाः आलम्बनसमनन्तर सह-
कार्यधिपतिरूपाः । एवम् चित्तचैत्तात्मकानां सुखादीनां चत्वारि कारणानि
द्रष्टव्यानि । एवम् चित्तचैत्तात्मकः स्कन्धः पञ्चविध रूपविज्ञान वेदना-
संज्ञासंस्कारसंज्ञकः । तदिदं सर्वे दुःखम् दुःखायतनम् दुःखसाधनं च
इति भावयित्वा तन्निरोधोपायं तत्त्वज्ञानं संपादयेत् । तच्च प्राचीनभावना-
बलाद्भवति इति परमं रहस्यम् ( सर्व० सं० पृ० ३१-४०)।
सूत्रस्यान्तं रहस्यम् पृच्छतां भवन्तश्च सूत्रस्यान्तं पृष्टवन्तः सौत्रान्तिका
•भवन्तु इति भगवता बुद्धेन अभिधानात् सौत्रान्तिकसंज्ञा संजाता इति ।
( ४ ) केचन बौद्धा: (वैभाषिका: ) बाह्येषु गन्धादिषु आन्तरेषु च
● रूपादिषु स्कन्धेषु सत्स्वपि तत्रानास्थामुत्पादयितुं सर्व शून्यम्
प्राथमिकान् माध्यमिकान् विनेयानचीकथद्भगवान् । द्वितीयांस्तु योगा
1 चारान् विज्ञानमात्रग्रहाविष्टान् विज्ञानमेवैकं सत् इत्यचीकथत् । तृतीयान्
• सौत्रान्तिकान् उभयं सत्यम् इत्यास्थितान् विज्ञेयमनुमेयम् इत्यचीकथत् ।
सेयं विरुद्धा भगवतो भाषा इति वर्णयन्तो वैभाषिकाख्यया ख्याताः ३
( सर्वे० पृ० ४३ बौद्ध० ) । वैभाषिकमते प्रात्यक्षिकं वस्तु सत्
आनुमानिकं त्वसत् इति ज्ञेयम् । वैभाषिका इत्थं मन्यन्ते । अर्थो द्वि-
विधः प्राह्मः अध्यवसेयश्च । तत्र ग्रहणं निर्विकल्पकरूपं प्रत्यक्षम् प्रमा-
णम् । कल्पनापोढत्वात् । अध्यवसायस्तु सविकल्पकरूपः अनुमानम्
अप्रमाणम् । कल्पनाज्ञानत्वात् । अवशिष्टं सौत्रान्तिकप्रस्तावे प्रश्चितम्
 
इति
 
इति
 
2