2023-10-18 06:40:26 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१२
 
न्यायकोशः ।
 
स्तेयादीनि विहिताकरणं प्रमादश्च । एतानि दुष्टाभिसंधिं चापेक्ष्यात्मम-

नसोः संयोगादधर्मोत्पत्तिरिति । अविदुषो रागद्वेषवतः प्रवर्तकाद्धर्मा-

त्प्रकृष्टात्स्वल्पाधर्मसहिताद्ब्रह्मेन्द्र प्रजापतिपितृमनुष्यलोकेष्वाशयानुरूपैरिष्ट-

शरीरेन्द्रियविषयसुखादिभिर्योगो भवति । तथा प्रकृष्टाद वर्मात्स्वरूपधर्मसहि-

तात्प्रेततिर्यग्योनिस्थानेषु अनिष्टशरीरेन्द्रियविषयदुःखादिभिर्योगो भवति ।

एवं प्रवृत्तिलक्षणाद्धर्मादधर्मसहिताद्देव मानुषतिर्यङ्नरकेषु पुनःपुनः सं-

सारप्रबन्धो भवति । ज्ञानपूर्वकात्तु कर्मणः कृतादसंकल्पितफला-

द्विशुद्धकुले जातस्य दुःखवियोगोपायजिज्ञासोराचार्यमुपगम्योत्पन्नषट्-

पदार्थतत्त्वज्ञानस्याज्ञान निवृत्तौ विरक्तस्य रागद्वेषाभावात्तज्जयोर्धर्माधर्मयोर-

नुत्पत्तौ संचितयोरुपभोगान्निरोधे संतोषसुखं शरीरपरिखेदं चोत्पाद्य

रागादिनिवृत्तौ निवृत्तिलक्षणः केवलो धर्मः परमार्थदर्शनजं सुखं कृत्वा

निवर्तते । तदा नित्यस्यात्मनः शरीरादिनिवृत्तौ बीजाभावेन पुनः शरी-

राद्यनुत्पत्तौ दग्धेन्धनानलवदुपशमो मोक्ष इति ( प्रशस्त ० गु० पृ० ३६ ) ।

 
<
अधिकम्>
( निग्रहस्थानम् ) [ क ] हेतूदाहरणाधिकमधिकम् ( गौ०

५।२।१३ ) । एकेन कृतत्वादन्यतरस्यानर्थक्यमिति । तदेतन्नियमाभ्युपगमे

वेदितव्यमिति ( वात्स्या० ५।२।१३ ) । नियमश्चैकस्यैव हेतोदृष्टान्तस्य


वा प्रयोगः कर्तव्य इत्याकारको वादिप्रतिवाद्युभयसंमतः पूर्वकृतः संकेतः ।

[ख] कृतकर्तव्यापुनरुक्ताभिधानम् ( गौ० वृ० ५ । २ । १३ ) । अनु-

वादस्तु न कृतकर्तव्यः साभिप्रायत्वात् । प्रतिज्ञाधिक्यं च पुनरुक्तम् ।

धूमादालोकात् महानसवत् चत्वरवत् इत्यादिकं तु विना समयबन्धं

दाढर्यादिभ्रमादुक्तमधिकम् । यथा महानसं महानसवत् - इति तु

नाधिकं किं तु पुनरुक्तम् ( गौ० वृ० ५.२ । १३ ) ।
 
-
 

[ग] अधिकहेत्वादिकथनम् । यथा शब्दोनित्यः शब्दत्वाच्छ्रावणवा -

च्चेत्यादि ( नील० ) ( दि० १ ) ।
 

 
<
अधिकरणम् - >
( कारकम् ) यद्धातूपस्थाप्ययादृशार्थे विग्रहस्थया सप्त-

म्या यः स्वार्थोनुभाव्यते तदेव तद्धातूपस्थाप्यतादृशक्रियायामधिकरणं

नाम कारकम् । यथा ग्रामे गन्तेत्यादौ । अत्र धात्वर्थे गतौ ग्राम निष्ठम-