This page has not been fully proofread.

न्यायकोशः ।
 
६०३
 
सूयः कर्तव्यः इति बोधनेन ब्राह्मणकर्तव्यत्वस्य बाधः इति विज्ञेयम् ।
बाधविभाजकं तु प्रकृतपक्षप्रकृतसाध्यवैशिष्ट्यग्रहविरोध्युन्नायकत्वे प्रकृत-
पक्षप्रकृतसाध्यग्रहाविरोधित्वे च सति प्रकृतपक्षप्रकृतसाध्य वैशिष्ट्य ग्रह-
विरोधित्वम् ( दीधि ० २ बाव० पृ० २२०) इति ।
 

 
बाधकमानम् –१ बाधवदस्यार्थोनुसंधेयः (दीधि० २ पक्ष० पृ० १२३ ) ।
२ बाधकं प्रमाणम् । यथा नापि साधकबाधकमानाभावः पक्षत्वम्
( चि० २ पक्ष० पृ० ३३ ) इत्यादौ ।
 

 
बाधितः - ( हेत्वाभासः ) [क] साध्याभाववत्पक्षको हेतुः । यथा वह्नि-
रनुष्णः पदार्थत्वात् इति ( प्र० प्र० ) ( त० कौ० पृ० १५ ) ।
[ख ] यस्य साध्याभावः प्रमाणान्तरेण निश्चितः सः । यथा वह्निर-
नुष्णो द्रव्यत्वाज्जलवदिति ( त० सं० ) । यथा वा हृदो वह्निमान्
धूमादित्यादौ धूमो बाधितः । बहिरनुष्ण इत्यत्र च वह्नौ पक्षे क्रिय-
माणे साध्याभावस्य अनुष्णत्वाभावस्योष्णत्वस्य त्वगिन्द्रियेण निश्चयात्
द्रव्यावं हेतुर्बाधितः । यस्य साध्याभाव इत्यादेरर्थश्च पक्षविशेष्यकप्रमा-
निश्चयप्रकारीभूतसाध्याभावरूपबाधवान् । अथवा पक्षनिष्ठसाध्याभावादि-
रूपबाधवान्यः स बाधितः ( वाक्य० २ पृ० १८) । बाधितत्वं
च कालात्ययापदिष्टत्वम् । तच्च उपजीव्यप्रमाणनिश्चितसाध्यविपरीतत्वम् ।
अथवा बाधात्मकहेतुदोषवत्वम् । एतज्ज्ञानं साक्षादनुमितिप्रतिबन्धकम् ।
बावनुष्णत्वं नास्ति इति ज्ञाने सति वह्रिरनुष्णः इति अनुमितेरसंभवात् ।
तद्भावलौकिक निर्णयस्य तद्वत्ताज्ञाने प्रतिबन्धकत्वात् ( त० कौ० २
पृ० १५ ) ।
 
बाल:- १ [ क ] ग्रहणधारणपटुः (त० दी० १ पृ० २ ) । तथा च
ग्रहणपूर्वकधारणयोग्यः इत्यर्थः (वाक्य० ) । अयं शास्त्राध्ययने बालः
इति ज्ञेयम् । यथा बालानां सुखबोधाय क्रियते तर्कसंग्रहः इत्यादौ ।
[ख] अधीतकाव्यकोशव्याकरणोनधीतन्यायो बालः इति केचिद्वदन्ति
( सि० च० पृ० १ ) । २ आ षोडशाद्भवेद्वालस्तरुणस्तत उच्यते इति
व्यवहारज्ञा आहुः । ३ स्तनधंयो बाल इति लौकिकजना वदन्ति ।