2023-11-02 10:17:16 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
बाघ० पृ० ९) ( दीधि० २) ( म० प्र० २ पृ० २८ ) ।

द्वितीयें च तद्वत्ताबुद्धौ तदत्यन्ताभावस्येव तद्वद्भेदस्यापि घियो विरोधि-

त्वात् हेत्वाभासलक्षणस्यापि समन्वयः । एवं च वृत्त्यनियामकेन

तादात्म्यसंबन्धेन अनुमितिस्वीकारे तत्संबन्धस्य प्रतियोगितावच्छेद-

कत्वे च तत्र साध्यवद्भेदस्य बाधत्वं बोध्यम् (ग० २ बाघ० ५० ९ ) ।

। समशीलयोरेकस्य यत्प्रतिबध्यत्वम् अन्यस्यापि तत्प्रतिबध्यत्वमनुभवसिद्धम्

तृतीये च प्राचीनमते पक्षः साध्यवान् पक्षे साध्यम् इति ज्ञानयोः

इत्याशयेन तदुक्तिः । एवं च एतादृशबाधज्ञानस्य ग्राह्याभावानवगाहि-

त्वेपि नानुमितिं प्रति प्रतिबन्धकत्वहानिः । चतुर्थे पक्षे साध्याभाव इत्यस्या-

श्व आधेयतया पक्षेण पक्षवृत्तित्वेन वा विशिष्ट इति । तथा च

विशेषणविशेष्यभावपरीत्येपि प्रतिबन्धकत्वमक्षतम् इत्याशयेनेदं लक्षणम्

इति ज्ञेयम् । पञ्चमे साध्याभावाधिकरणत्वम् साध्यवद्भेदाधिकरणत्वं

सप्तमे पक्षान्यत्वादिकमित्यस्य साध्यवत्त्वव्यापकानुयोगिताकत्वादिविशिष्टं

चेत्यर्थः । अधिकरणताभेदपूर्वस्माद्भेदः । एतदपि प्राचीनमतेन ।

पदिकम् इत्यर्थः । तथा च भेदप्रतियोगिताभेदानुयोगित्वयोः

समनियतयोरेकज्ञानं यत्र विरोधि अपरज्ञानमपि तत्र तथा इत्याशयेनेदम्

( ग० बाघ ० पृ० १०) । एवमन्यत्रोह्यम् । बाधितं च लिङ्गमनेकविधम् ।

१ धर्मिग्राहकमानबाधितम् । घटो व्यापकः सत्त्वादिति प्रत्यक्षेण ।

त्वादिति सुवर्णमयत्वबोधकागमेन । २ साध्यप्रतियोगिग्राहकमानबा-

परमाणवः सावयवा मूर्तत्वादिति अनुमानेन । मेरुः पाषाणमयः पर्वत-

धितम् । वह्निरनुष्णः कृतकत्वादिति प्रत्यक्षेण । शब्दोश्रावणो गुणत्वादिति

३: साध्यग्राहकमानबाधितम् । नरशिरः कपालं शुचि प्राण्यङ्गत्वादिि

अनुमानेन । गवयत्वं गवयपदाप्रवृत्तिनिमित्तं जातित्वादिति उपमानेन ।

आगमेन । ४ हेतुग्राहकमानबाधितम् । जलानिलावुष्णौ पृथिवीतो

विपरीत स्पर्शत्वात्तेजोवदिति प्रत्यक्षेण । मनो विभु ज्ञानासमवाय्या-

धारत्वादिति अनुमानेन । राजसूयो ब्राह्मणकर्तव्यः स्वर्गसाधनत्वा-

दग्निष्टोमवदिति राजसूयकर्तव्यताबोधकागमेन इति ( चि० २ बाघ ०
 

राज्ञैव राज-
पृ० ११० ) ।
 
न्अत्र राजा राजसूयेन यजेत इति श्रुत्या