2023-11-02 10:15:58 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
( ग० बाघ ० पृ० १ ) । साध्याभावप्रमा च प्रमात्वेन ज्ञातैवोपयुज्यते

न स्वरूपसती । हेत्वाभासत्वात् । प्रमात्वज्ञानं विनाधिकबलत्वाभावेनादो-

षत्वात् । अप्रमायामपि प्रमात्वज्ञानेनुमितिप्रतिबन्धाच्च ( चि० २ पृ०

१०३ - १०४ ) । एकदेशिमतेन पक्षनिष्ठप्रमाविषयत्व प्रकाराभावप्रति-

योगिसाध्यकत्वम् (चि० २ पृ० १०३ ) । अत्रत्यविषयः प्रकारता-

शब्दव्याख्यानावसरे संपादितः इत्यत्रैव विरम्यते । रघुनाथशिरोमणि-

भट्टाचार्यैस्तु बाधवरूपमनेकविधमुक्तम् । तद्यथा १ साध्याभाववान्

पक्षः । २ साध्यवदन्यः पक्षः । ३ पक्षावृत्तिसाध्यम् । ४ पक्षे साध्या-

भावः । ५ पक्षनिष्ठसाध्याभाववत्त्वादिकम् । ६ साध्यादे: पक्षावृत्तित्वा-

दिकम् । ७ साध्यवत्सामान्यादेः पक्षान्यत्वादिकम् । ८ विशिष्टसाध्ये

पक्षादेर्विशेष्याभाववत्त्वादिकम् । ९ पक्षादेः साध्यासमानाधिकरणधर्म-

वत्त्वम् ( दीधि० २ बाध० पृ० २१९ ) इति । यथा हृदो वह्निमान्

घूमादित्यादौ हदे घूमेन बहिसाधने वयभाववद्धदादिर्बाध: ( न्या०

म० २ पृ० २१ ) । अत्र प्रथमे साध्याभाववत्त्वमनवच्छिन्नं ग्राह्यम् ।

अतो नाव्याप्यवृत्तिसाध्यकस्थले कपिसंयोगवानयं वृक्षः इत्यादावति -

प्रसङ्गः । व्याप्यवृत्तिसाध्यकस्थले च पक्षनिष्ठान वच्छिन्नसाध्याभाववत्त्वं

बाधः । यथा जलं पृथिवी स्पर्शवत्वादित्यादौ जलनिष्ठपृथिवीत्वाभावो

बाधः । अत्रायं विशेषो ज्ञेयः । यत्र तु देशकालावच्छेदेन साध्यसाधनम्

यथा मूलावच्छिन्नो वृक्षः कपिसंयोगीत्यादौ उत्पत्तिकालावच्छिन्नो घटो

गन्धवान् पृथिवीत्वादित्यादौ च तत्र तदवच्छेदेन साध्याभाववत्त्वं बाधः ।

इमे असंकीर्णबाघोदाहरणे इति जेगीयेते ( न्या० म० २ पृ० २१ )

( म० प्र० २ पृ० २८ ) । परे तु घटः सकर्तृकः कार्यत्वादित्यादौ

यत्र लाघवोपनीतमेकमात्रकर्तृकत्वं भासते तत्र तदभावोसंकीर्णोदाहरणम्

(गौ००१२/९ ) । यत्र तु पक्षतावच्छेदके धर्मेन-

तिरिक्तवृत्तित्वरूपसाध्यावच्छेदकताभानमुद्देश्यम् यथा पर्वतो वह्निमानि-

त्यादौ तत्र पक्षतावच्छेदकसामानाधिकरण्येन साध्याभाववत्वं बाधः।

यत्र तु तादृशधर्मसामानाधिकरण्यमात्रेण साध्यसिद्धिरुद्देश्या यथा हृदो

बहिमानित्यादौ तत्र तादृशधर्मावच्छिन्नं साध्याभाववत्त्वं बाध: ( ग०
 

७६ न्या० को०
 
while
 
-