2023-11-02 10:15:24 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
हिप्रकरणपठितः समासो बहुव्रीहिः । तेन उन्मत्तगङ्गाद्यव्ययीभावे नाति-

व्याप्तिः । बहुव्रीहिर्द्विविधः । समानाधिकरणः व्यधिकरणश्च । तत्र

समानाधिकरणो यथा चैत्रदत्तधन इत्यादौ आरूढवानरो वृक्ष इत्यादौ

च । अत्र चैत्रेण दत्तं धनं यस्मै इति व्यासवाक्यात् चैत्रकर्तृकयत्संप्र-

दानकदानकर्म धनम् इत्यन्वयबोध: । समासे तु चैत्रकर्तृकदा नकर्मधन-

संबन्धी इत्यन्वयबोधः । संबन्धश्च स्वकर्मकदानसंप्रदानत्वम् इति

बोध्यम् । आरूढवानर इत्यत्र आरूढो बानरो यम् इति व्यासे आडू-

पूर्वकरुहधातोरूर्ध्वदेशावच्छिन्नसंयोगानुकूलक्रिया क्तप्रत्ययस्याश्रयः द्विती

याया आधेयत्वम् अर्थः। तथा च वृक्षवृत्त्यूर्ध्वदेशावच्छिन्नसंयोगानु-

कूलक्रियाश्रयो वानरः इत्यन्वयबोधः । समासे तु आरोहण कर्तृवानर-

संबन्धी वृक्षः इत्यन्वयधीः । संबन्धः स्वकर्तृकारोहणकर्मत्वम् इति

ज्ञेयम् । व्यघिकरणो यथा चक्रपाणिरित्यादौ । अत्र चक्रं पाणौ

इति विग्रहवाक्ये यत्संबन्धिपाणिवृत्ति चक्रम् इत्यन्वयधीः । समासे तु

चक्रयुक्तपाणिसंबन्धी इति बोधः ( त० प्र० ख० ४ पृ० ४९ ) ।

प्रकारान्तरेण बहुव्रीहिर्द्विविधः तद्गुणसंविज्ञान: अतद्गुणसंविज्ञानश्चेति ।

( श० प्र० श्लो० ४४ ) । लम्बकर्णः चित्रगुः इति क्रमेणोदाहरण-

द्वयम् । प्रकारान्तरेणापि द्विपदत्रिपदचतुष्पदादिभेदेन बहुविधः ।

यथा चित्रगुः जरतीचित्रगुश्चैत्रः महन्नीलोत्पला सरित् इत्यादौ ( ०

प्र० श्लो० ४६ टी० पृ० ६० ) । २ काव्यज्ञास्तु अनेकधान्या

दियुक्तः । यथा तत् पुरुष कर्म धारय येनाहं स्यां सदा बहुव्रीहिः

( उद्भट ) इत्यादौ इत्याहुः ।
 

 
<
बाध: - >
१ अभावः ( वाक्य० ४ पृ० १९) । यथा अर्थाबाधो योग्यता

इत्यादी ( त० सं० ) । २ प्रतिबन्धः । ३ पीडनम् इति काव्यज्ञा

आहुः । ४ हेत्वाभासविशेषः । स च प्राचीनमते साध्याभाव-
६००
 

वत्त्वप्रमाविषयपक्षकत्वम् । अथवा प्रमितसाध्याभाववत्पक्षकत्वम् । तथा

च साध्याभावप्रमैव दोषः । एतादृशबाधज्ञानस्य प्रमात्वविषयकता-

नियमेन प्रतिबन्धकताध्रौव्यादिति भावः । तथाचैतन्मते प्रमात्वविषयक-

त्वस्यैव प्रतिबन्धकतायां प्रयोजकत्वाद्धेत्वाभासलक्षणस्य समन्वयो भवति
 
2