न्यायकोशः /653
This page has not been fully proofread.
न्यायकोशः ।
५९९
तु नापेक्षाबुद्धौ पूर्वपूर्वसंख्या विशिष्टत्वनियमः । अत एव सेनावनादिषु
बहुत्वमात्रमुत्पद्यते । न तु संख्यान्तरम् । संशयस्त्वसत्कोटिकोपि भवत्येव
( बै० उ० ७/२१८ पृ० ३२३) इति । ३ कचित् त्रित्वमात्र पर्य-
वसायि । कपिञ्जलन्यायात् । यथा वसन्ताय कपिञ्जलानालभेत इत्यादौ
कपिञ्जलपदोत्तरबहुवचनबोध्य बहुत्वममुकसंख्याकेष्वेव तिष्ठति इति संख्या-
नियमने नियामकाभावात्रिष्वेव बहुत्वं कल्प्यते । तच्च बहुत्वम् पर्याध्या
सर्वत्र वर्तते । समवायेन प्रत्येकं वृत्तिमत् ।
बहुव्रीहिः–१ ( समासः ) [ क ] स्वांशस्य निरूढलक्षणाया ज्ञापकेन
शब्देन घटितः स्वगर्भस्य यादृशार्थस्य संबन्धित्व प्रकारेणान्वयबोधं प्रति
समर्थः समासः स स्वगर्भतादृशार्थसंबन्धिबोधने बहुव्रीहिः । यथा आरूढ-
वानरो वृक्षः पीतपयस्कं पात्रम् दत्तदक्षिणो द्विजः चित्रगुः इत्यादौ ।
आरूढवानरो वृक्ष इत्यत्र आरूढो वानरो यम् इति व्युत्पत्त्या स्वकर्म-
कारोहण कर्तृवानरसंबन्धिस्वेन वृक्षम् पीतपयस्कं पात्रमित्यत्र पीतं पयो
येन इति रीत्या स्वकरणकपानकर्मजलसंबन्धित्वेन पात्रम् दत्तदक्षिणो
इत्यत्र दत्ता दक्षिणा यस्मै इति क्रमेण स्वसंप्रदानकदानकर्मदक्षिणा-
संबन्धित्वेन द्विजम् चित्रगुरित्यत्र चित्रा गौर्यस्य इति वाक्यानुसारेण
चित्राभिन्नस्वगोसंबन्धित्वेन चैत्रं च बहुव्रीहिर्बोधयतीति सर्वत्र स्वगर्भत-
त्तदर्थसंबन्धित्वेन धर्मिणामवगमो भवति ( श० प्र० श्लो० ४२ टी०
पृ० ५३) । [ख] नियमतः समासप्रयुक्तलाक्षणिकोत्तरनामकसमासः ।
यथा चित्रगुरित्यादौ । अत्र चित्रगोस्वामिनि समासप्रयुक्तलक्षणोत्तरपद
एव इति लक्षणसंगतिः । अन्यथा सुबर्यैकत्वादेस्तत्रान्वयो न स्यात् ।
प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वम् इति व्युत्पत्तेः । अत्र पद-
प्रयोजनम् । राजपुरुषः इत्यादिवारणायोत्तरेति नामविशेषणम् । अर्ध-
पिप्पली इत्यादितत्पुरुषवारणाय नियमतः इति पदम् । तत्पुरुषे तु न
नियमतः । समासप्रयुक्तलाक्षणिकोत्तर नामके राजपुरुषः इत्यादौ व्यभि
चारातू ( त० प्र० ख० ४ पृ० ४४ ) । [ग] शाब्दिकानां मते
प्रायेणान्यपदार्थप्रधानः समासविशेषो बहुव्रीहिः । अथवा [ घ] बहुत्री-